Solved CBSE Sample Papers for Class 10 Sanskrit Set 1

0
7

Download Solved CBSE Sample Papers for Class 10 Sanskrit Set 1 2019 PDF to understand the pattern of questions asks in the board exam. Know about the important topics and questions to be prepared for CBSE Class 10 Communicative English board exam and Score More marks. Here we have given Sanskrit Sample Paper for Class 10 Solved Set 1.

Board – Central Board of Secondary Education, cbse.nic.in
Subject – CBSE Class 10 Sanskrit
Year of Examination – 2019.

Solved CBSE Sample Papers for Class 10 Sanskrit Set 1

हल सहितम्
निर्देशाः

(i) प्रश्नपत्रे चत्वारः खण्डाः सन्ति ।।

खण्डः (क) अपठित – अवबोधनम्                       –             10 अंक
खण्डः (ख) रचनात्मक कार्यम्।                           –              15 अंक
खण्डः (ग) अनुप्रयुक्त – व्याकरणम् |                  –              25 अंक
खण्डः (घ) पठित – अवबोधनम्                           –              30 अंक

(ii) सर्व प्रश्नाः अनिवार्यः ।।
(iii) प्रश्नानाम् उत्तराणि खण्डानुसारां क्रमेणैव लेखनीयानि ।
(iv) प्रश्न संख्या अवसयं लेखानीया ।
(v) उत्तराणि संस्कृतेन एव लेखनीयानि ।।

खण्ड ‘क’ : अपठित अवबोधनम्
1. अधोलिखितम् अनुच्छेदं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि लिखत ।
यदि मनः प्रसन्नम् अस्ति तर्हि वयं सर्वाणि कार्याणि सम्यक् कर्तुं शक्नुमः। मनः खिन्नम् असन्तुष्टं वा अस्ति चेत् अस्माकं प्रेरणा न भवति । अतः मनसः प्रसन्नतारक्षणम् अत्यन्तम् आवश्यकम् । जयपराजययोः आरम्भः अपि जनानां मनसि भवति । स्नेहस्य शत्रुताया आरम्भः अपि तेषां मनसि एव भवति। जनैः सर्वदा । भावात्मकचिन्तनं करणीयम्। अभावात्मकचिन्तनकर्ता जीवने सर्वत्र सदैव कष्टानि एव अनुभवति। अत एव उत्तम् – “मन एव मनुष्याणां कारणं बन्धमोक्षयोः” ।।
प्रश्नाः
I. एकपदेन उत्तरत ।
(i) बन्धमोक्षयोः कारणं किम् अस्ति? ।
(ii) कस्य प्रसन्नतारक्षणम् आवश्यकम् अस्ति?
(iii) कयोः अरम्भः अपि जनानां मनसि भवति?
(iv) कैः सर्वदा भावात्मक चिन्तनं करणीयम्।

II. पूर्णवाक्येन उत्तरत ।
(i) कः जीवने सर्वत्र कष्टानि अनुभवति?
(ii) कदा वयं सर्वाणि कार्याणि सम्यक् कर्तुं शक्नुमः?

III. प्रदत्तविकल्पेभ्यः उचितम् उत्तरं चित्वा लिखत ।

(i) ‘शक्नुमः’ इति क्रियापदस्य कि कर्तृपदं गद्यांशे प्रयुक्तम्?
(अ) कर्ता
(ब) मनः
(स) वयम्
(द) कार्याणि

(ii) ‘अथवा’इति पदस्य किं पर्यायपदं गद्यांशे प्रयुतम्?
(अ) अपि
(ब) वा
(स) तहिं
(द) एव।

(iii) ‘आरम्भः’ इति पदस्य कि क्रियापदम् अनुच्छेदे प्रयुक्तम्?
(अ) शक्नुमः
(ब) करणीयम्
(स) मनसि
(द) भवति

(iv) गद्यांशे ‘तेषाम्’ इति सर्वनामपदं केभ्यः प्रयुक्तम्?
(अ) कष्टेभ्यः
(ब) कार्येभ्यः
(स) जनेभ्यः
(द) जीवनेभ्यः ।

IV. अस्य अनुच्छेदस्य कृते समुचित शीर्षक संस्कृतेन लिखत।

उत्तर
I. एकपदेन उत्तरम् –
(i) मनः
(ii) मनसः
(iii) जयपराजययोः
(iv) जनैः

II. पूर्णवाक्येन उत्तरम् –
(i) अभावात्मक चिन्तनकर्ता
(ii) यदा मनः प्रसन्नम् अस्ति तर्हि

व्याख्यात्मक हल-
(i) अभावात्मक चिन्तनकर्ता जीवने सर्वत्र सदैव कष्टानि एव अनुभवित।
(ii) यदा मनः प्रसन्नम् अस्ति तर्हि वयं सर्वाणि कार्याणि सम्यकं कर्तुं शक्नुमः।

III. निर्देशानुसारम् उत्तरम् –

(i) (स) वयम्।
(ii) (ब) वा
(iii) (द) भवति
(iv) (स) जनेभ्यः

IV. शीर्षकम् ‘मनसःप्रसन्नता’ अथवा अन्य उपयुक्तं शीर्षकम्।

खण्ड ‘ख’ : रचनात्मक कार्यम्
2. ‘मित्र’ प्रति अधोलिखितम् पत्रं मञ्जूषा-प्रदत्तशब्दैः पूरयित्वा पुनः लिखत।

गङ्गा–छात्रावासः,
तिथिः ………..

प्रिय मित्र ! (i) ………………………….
सस्नेहं नमः ।
अत्र कुशलं तवास्तु । गतसप्ताहे अस्माकं (ii) ……………….. संस्कृतसम्भाषण-शिविरम् (iii) ……………………….. आसीत्। चतुर्दशदिनानि यावत् वयं संस्कृत-सम्भाषणस्य (iv) …………………… अकुर्म। तत्र एकस्याः लघुनाटिकायाः
(v) ……………… अपि अभवत् । अहं तु विदूषकस्य (vi)……………………….. कृतवान् । सर्वे जनाः हसित्वा हसित्वा (vii) ……………… अकुर्वन्। अहम् इदानी सर्वदा संस्कृतेन एव (viii) …………………… | भवान् अपि संस्कृतेन सम्भाषणस्य अभ्यास (ix) ……………………. | पितरौ। (x) ……………………………..मम प्रणामाञ्जलिं निवेदयत्

भवतः मित्रम्,
शेषनाथः।

मञ्जूषा

अभिनयम्, अभ्यासम्, प्रति, विद्यालये, मञ्चनम्, आयोजितम्, करतलध्वनिम्, वदामि, रमेश ! करोतु।
उत्तर
पत्र लेखनम्-
(i) रमेशः                                 (ii) विद्यालये
(iii) आयोजितम्।                     (iv) अभ्यासम्
(v) मञ्चनम्।                             (vi) अभिनयम्।
(vii) करतलध्वनिम्                   (viii) वदामि
(ix) करोतु                                 (x) प्रति

व्याख्यात्मक हल
गड़गा छात्रावासः,
तिथिः ………….

प्रिय मित्र ! (i) रमेशः सस्नेहं नमः ।। अत्र कुशलं तवास्तु । गतसप्ताहे अस्मार्क (ii) विद्यालये संस्कृतसम्भाषण-शिविरम् । (iii) आयोजितम् आसीत्। चतुर्दशदिनानि यावत् वयं संस्कृत-सम्भाषणस्य (iv) अभ्यासम् अकुर्म। तत्र एकस्याः लघुनाटिकायाः (V) मञ्चनम् अपि अभवत्। अहं तु विदूषकस्य (vi) अभिनयम् कृतवान्। सर्वे जनाः हसित्वा हसित्वा (vii) करतलध्वनिम् अकुर्वन्। अहम् इदानी सर्वदा संस्कृतेन एव (vii) वदामि । भवान् अपि संस्कृतेन सम्भाषणस्य अभ्यासं (ix) करोतु । पितरौ (x) प्रति मम प्रणामाञ्जलिं निवेदयतु।
भवतः मित्रम्,
शेषनाथः।
3. अधः प्रदत्तं चित्रं दृष्ट्वा मञ्जजूषायां सहायतया पञ्जवाक्यानि संस्कृतेन लिखत।
CBSE Sample Papers for Class10 sanskrit Solved Set 1 3

मञ्जूषा

उद्यानम्, अवकाशः, भ्रमणार्थम्, जनाः, बालिकाः, बालकाः, भोजनम्, वृक्षाः, अधः, क्रीडन्ति, खादन्ति, भ्रमन्ति, सन्ति, कन्दुकेन, पादपाः, अस्ति, नद्याः, तटे, सर्वे, प्रसन्नाः ।
उत्तर
चित्रवर्णनम्बच्चों से सरल, संक्षिप्त वाक्य पूर्ति अपेक्षित है। केवल वाक्य की शुद्धता देखी जाए। इस प्रश्न का प्रमुख उद्देश्य वाक्य रचना है। वाक्य लघु अथवा दीर्घ हो यह महत्वपूर्ण नहीं। व्याकरणिक दृष्टि से शुद्ध होने पर पूर्ण अंक दिए जाएँ। मंजूषा में दिए गए शब्द सहायतार्थ हैं, बच्चे शब्द चुनें अथवा नहीं-आवश्यक नहीं। वे स्वयं शब्दों का प्रयोग कर वाक्य-निर्माण कर सकते हैं। बच्चे स्वयं भी मंजूषा में दिए गए शब्दों की विभक्तियाँ आदि भी बदल सकते हैं अत: अंक दिए जाएँ। त्रुटियों के अंक अंशत: काटे जाएँ। पूर्णतया शुद्ध होने पर ही 10 अंक दिए जाएँ।
व्याख्यात्मक हल

(i) नद्याः तटे एकम् उद्यानम् अस्ति ।
(ii) जनाः अत्र भ्रमणार्थम् आगच्छन्ति ।
(ii) बालकाः बालिका च कन्दुकेन क्रीडन्ति।
(iv) पादपानाम् अधः जनाः भोजनं खादन्ति ।
(v) सर्वे प्रसन्नाः सन्ति ।

अथवा

मञ्जूषाप्रदत्तशब्दानां साहाय्येन निम्नलिखित विषयम् अधिकृत्य पञ्च संस्कृतवाक्येषु एकम् अनुच्छेदं लिखत।

“प्रात:काल:”
मञ्जूषा

भ्रमन्ति, क्रीडन्ति, गायन्ति, कुजन्ति, गच्छन्ति, तरन्ति, विचरन्ति, जनाः, खगा, पशवः, बालाः, यत्र-तत्र, समयः, मनोहरः, उपवनेषु, मार्गेषु, सूर्योदयः, मीनाः।
उत्तर

प्रात:काल:

यह विकल्प सबके लिए दिया गया है। बच्चे स्वयं भी मंजूषा में दिए गए शब्दों की विभक्तियाँ आदि बदल सकते हैं। अंक दिए जाएँ | इस प्रश्न के 10 अंक हैं । प्रत्येक वाक्य के लिए 2 अंक हैं ।।
व्याख्यात्मक हल-

(i) सूर्योदयः समयः मनोहरः भवति ।
(ii) जनाः उपवनेषु गच्छन्ति।
(iii) बालाः यत्र-तत्र क्रीडन्ति।
(iv) पशवः भ्रमन्ति खगाः च कृजन्ति ।
(v) मीनाः गीतं गायन्ति।

खण्ड ‘ग’ : अनुप्रयुक्त – व्याकरणम्
4. अधोलिखितवाक्येषु रेखाडिल्कतपदेषु सन्धि सन्धिच्छेदं वा कृत्वा लिखत।

(i) यदि + अपि सः बालः तथापि सः सुन्दरं गायति ।।
(अ) यद्यपि
(ब) यदिपि
(स) यदिअपि
(द) यदयपि

(ii) गुरुवागते छात्राः तूष्णीम् अभवन्।
(अ) गुरु + आगते
(ब) गुरौ + आगते
(स) गुरवा + गते
(द) गुराव + आगते

(iii) जगदीश्वरः कुत्र न विराजते ?
(अ) जगत् + ईश्वरः
(ब) जगदी + श्वरः
(स) जगत् + ईश्वरः
(द) जगति + ईश्वरः

(iv) मृगाश्चरन्ति।
(अ) मृगाश् + चरन्ति
(ब) मृगा + चरन्ति
(स) मृगाः + चरति
(द) मृगास् + चरन्ति

उत्तर
सन्धिः

(i) (अ) यद्यपि
(ii) (ब) गुरौ + आगते
(iii) (स) जगत् + ईश्वरः
(iv) (द) मृगाः + चरन्ति अथवा मृगास्+ चरन्ति

5. अधोलिखितेषु वाक्येषु रेखाडिल्कतपदानां समास विग्रहंवा प्रदत्तविकल्पेभ्य: चित्वा लिखत।|

(i) पिककाको उड्डीयते।
(अ) पिकाः च काकाः च
(ब) पिकः च काक: च
(स) पिक: काकः तयोः समाहारः
(द) काका: पिकः च

(ii) दत्तं धनं यस्मै सः जनः आगच्छति ।।
(अ) दत्तधनम्।
(ब) दत्तधनः
(स) दत्तधनाय
(द) दत्तधनस्य

(iii) पीतदुग्धा बालिका भ्रमति।
(अं) पीतं दुग्धम्।
(ब) पीतं दुग्धं येन सः
(स) पीतं दुग्धं यया सा
(द) पीतं च दुग्धं च

(iv) श्रीरामः मृगस्य पश्चात् गच्छति।
(अ) अनुमृगम्
(ब) अनुमृगः
(स) उपमृगम्
(द) प्रतिमृगम्

उत्तर
समासः

(i) (ब) पिकः च काकः च
(ii) (स) पीत दुग्ध यया सा
(ii) (ब) दत्तधनः (iv) (अ) अनुमृगम्

6. अधोलिखितवाक्येषु रेखाडिल्कतपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम् उत्तरं विकल्पेभ्य: चित्वा लिखत। |

(i) पठ् + शतृ बालकः शनैः-शनैः गच्छति।
(अ) पठन्
(ब) पठन्तम्
(स) पठत:

(ii) वृध् + शानच् बालिकायै दुग्धं यच्छ।
(अ) वर्धमाना
(ब) वर्धमानायै
(स) वर्धमानायाः

(iii) मानवता एक मानवस्य भूषणम् अस्ति ।
(अ) मानव + त्व
(ब) मानव + तल् ।
(स) मानव + टाप

(iv) वानरस्य चपल + त्व बालेभ्यः रोचते।
(अ) चपलत्व
(ब) चपलत्वम् ।
(स) चपलता

उत्तर
प्रत्ययः

(i) (अ) पठन्
(ii) (ब) वर्धमानायै
(iii) (ब) मानव + तल्
(iv) (ब) चपलत्वम्

7. अधोलिखिते संवादे वाच्यानुसार रिक्त स्थान पूर्ति कुरुत।
मोक्षिताः – त्वम् पत्रिकायां किं पश्यसि?
(i) तांशी: – मया तु पत्रिकायां सुन्दर चित्राणि………..।।
(अ) दृश्यते
(ब) दृश्यन्ते
(स) पश्यतु
(द) दृश्यति

(ii) मोक्षिताः – त्वं कीदृशानि चित्राणि ……..
(अ) पश्यति
(ब) पश्य
(स) पश्यसि
(द) पश्यतु

(iii) तांशीः – मया गृहसज्जायाः ……………… दृश्यन्ते ।
(अ) चित्राणि
(ब) चित्राः |
(स) चित्रम्
(द) चित्रैः

उत्तर
वाच्य परिवर्तन

(i) (ब) दृश्यन्ते
(ii) (स) पश्यसि |
(ii) (अ) चित्राणि

8. एतेषु वाक्येषु अङ्काना स्थाने समयसूचकसंस्कृतसंख्यापदानि लिखत।। |
(i) संस्कृतदिवसे प्रातः 9.00 ……………. वादने मुख्यातिथि-महोदयस्य आगमनम्।
(अ) वि
(ब) सपाद नव
(स) पादोन नव
(द) नव

(ii) तदन्तरं 9.15 ……….. वादने दीपप्रज्वालनम्
(अ) सपाद नव
(ब) पादोन दश
(स) सार्द्धनव
(द) नव

(iii) ततः 9.30 ………. वादने कार्यक्रमाणां प्रस्तुतिः।
(अ) सद्ध नव
(ब) पादीन नव
(स) नव
(द) सपाद नव

(iv) अन्ते 11.45 …………. वादने प्रधानाचार्यस्य सम्बोधन धन्यवादज्ञापन च।
(अ) एकादश
(ब) पादोन द्वादश
(स) एकादश सपाद
(द) सार्ध एकादश

उत्तर
समय लेखनम्

(i) (द) नव
(ii) (अ) सपादनव
(iii) (अ) सद्ध नव
(iv) (ब) पादोन द्वादश

9. अधोलिखितवाक्येषु रिक्तस्थानानि मजषायां प्रदत्तैः उचितैः अव्ययपदैः पूरयित्वा लिखत ।
(i) सः ……….. पठितुम् इच्छति?
(अ) मा
(ब) कुत्र
(स) शवः
(द) यः

(ii) तत्र.. ……………….. गच्छ |
(अ) यत्
(ब) मा
(स) तत्र
(द) यत्र

(iii) ते सर्वे……………………नाटिकां द्रष्टुम् अगच्छन्।
(अ) शवः।
(ब) हयः
(स) कुतः
(द) यत्

(iv)…………. वाराणसीं गमिष्यति ।।
(अ) तत्र
(ब) शवः
(स) मा
(द) यत्

उत्तर
अव्ययः

(i) (ब) कुत्र
(ii) (ब) मा
(iii) (ब) हयः
(iv) (स) मा

10. अधोलिखितवाक्येषु रेखाडिल्कतपदम् अशुद्धम् अस्ति। प्रदत्तविकल्पेभ्यः समुचितम् उत्तरं चित्वा अशुद्धपदं संशोध्य लिखत।
(i) नद्यां जलः नास्ति।
(अ) जले
(ब) जलस्य
(स) जलम्
(द) जलाय

(ii) वानराः अकूर्दः।
(अ) अकृर्दत्
(ब) अकृर्दताम्।
(स) अकूर्दन् ।
(द) अकृर्दत्

(iii) अहम् सेवफल खादति।
(अ) आवाम्
(ब) वयम् ।
(स) त्वम्
(द) सः

(iv) वयं जन्तुशालां हयः गमिष्यामः।
(अ) गमिष्यामि
(ब) अगच्छाम
(स) अगच्छाव
(द) गच्छामः

उत्तर
अशुद्धि-संशोधनम्

(i) (स) जलम्
(ii) (स) अकूर्दन्
(iii) (द) सः
(iv) (ब) अगच्छाम

खण्ड ‘घ’ : पठित अवबोधनम्।
11. (अ) अधोलिखित गद्यांश पठित्वा प्रदत्तप्रश्नान् संस्कृतेन उतरत।
” गृहे तस्य भार्या सपदि समागतं पतिं दृष्ट्वा अपृच्छत्-“आर्य! किं सर्वगतं कुशलं वर्तते? अयथाकालं समागतोऽसि ? ” सम्प्रति धर्ममतिः सः पश्चात्तापेन दग्धमानसः सर्वं वृत्तान्तं निवेद्य सकरुणम् उच्चैः अक्रन्दत्। बुद्धिमती सा अवदत्-‘अलं चिन्तया। आपदां तरणिः धैर्यम्। “इदानीं विषादं त्यक्त्वा उद्यमः क्रियताम् ।”
प्रशनाः
(I) एकपदेन उत्तरत।
(i) किं त्यक्त्वा उद्यमः करणीयः?
(ii) सः केन दग्धमानसः आसीत् ।

(II) पूर्णवाक्येन उत्तरत।
आपदां तरणिः किम्?

(III) विकल्पेभ्यः उचितम् उत्तरं चित्वा लिखत।
(i) ‘बुद्धिमती सा अवदत्’ इति वाक्ये ‘ सा’ सर्वनामपदं कस्यै प्रयुक्तम्?
(अ) भार्यायै
(ब) धैर्याय
(स) पत्ये।

(ii) ‘नीचैः’ इति पदस्य किं विलोमपदम् अत्र प्रयुक्तम्?
(अ) अलम्
(ब) सम्प्रति
(स) उच्चैः ।

(iii) सः सर्वं वृत्तान्तं निवेद्य सकरुणम् उच्चैः अक्रन्दत् इति वाक्ये कः अव्यय पदं प्रयुक्तः ?
(अ) सर्व
(ब) उच्चैः
(स) निवेद्य ।
(द) सः

(iv) ‘शीघ्रम्’ इत्यर्थ गद्यांशे। किम् पदं प्रयुक्तम्?
(अ) सपदि
(ब) इदानी
(स) अलं
(द) सर्व

उत्तर
I. एकपदेन उत्तरम् –
(i) विषादं
(i) पश्चात्तापेन
II. पूर्णवाक्येन उत्तरम्
धैर्यम् ।
III. निर्देशानुसारम् उत्तरम् –

(i) (अ) भार्यायै
(i) (स) उच्चैः
(iii) (स) निवेद्य
(iv) (अ) सपदि

 (आ) अधोलिखित पद्यांश पठित्वा प्रदत्तप्रश्नानां उत्तराणि लिखत। |

अथ केन प्रयुक्तोऽयं पापं चरति पुरुषः।
अनिच्छन्नपि वाष्णेय ! बलादिव नियोजितः।

प्रश्नाः
I. एकपदेन उत्तरत
(i) कामेन प्रयुक्तः नरः किम् आचरति? ।
(ii) ‘वाष्णेय’ इति पदं कस्मै प्रयुक्तम्?
II. पूर्णवाक्येन उतरत-
पुरुषः कथं पापं करोति?
III. निर्देशानुसारं शुद्धम् उत्तरं प्रदत्तविकल्पेभ्यः चित्वा लिखत।
(i) ‘चरति’इति क्रियापदस्य कर्तुपदं किम्?
(अ) वाष्र्णेय
(ब) नियोजितः
(स) पुरुषः
(द) पापम्।

(ii) ‘संलग्नः’ इति स्थाने कि पदं श्लोके प्रयुक्तम्?
(अ) प्रयुक्तः
(ब) पापम् ।
(स) नियोजितः
(द) बलात्

(iii) ‘चरित’ पदे कः लकारः प्रयुक्तः ?
(अ) लट्
(ब) लोट्
(स) लङ
(द) विधिलिङ

(iv) ‘अनिच्छन्नपि’ पदे सन्धिच्छेदं कुरु
(अ) अनिच्छन् + अपि
(ब) अनिच्छान्+ अपि
(स) अनिच्छत् + अपि
(द) अनिच्छ + न्नपि

उत्तर
I. एकपदेन उत्तरम् –
(i) पापं
(ii) कृष्णाय
II. पूर्णवाक्येन उत्तरम्पुरुषः अनिच्छन् अपि बलात् नियोजितः इव पापं चरति ।
III. निर्देशानुसारम् उत्तरम्

(i) (स) पुरुषः
(ii) (स) नियोजितः
(iii) (अ) लट्
(iv) (अ) अनिच्छन् + अपि

(इ) अधोलिखित नाट्यांश पठित्वा प्रदत्तप्रश्नानां उत्तराणि लिखत।
अमात्याः (राज्ञा नेत्रदानार्थं निश्चयः कृतः इति ज्ञात्वा)- महाराज ! अलम् एतावता दुस्साहसेन, प्रभूतं धनमेव दीयताम्।
राजा दास्यामीति प्रतिज्ञाय योऽन्यथा कुरुते मनः। –
कार्पण्यानिश्चितमतेः कः स्यात् पापतरस्ततः। नाहं स्वर्ग न मोक्षं कामये किन्तु आक्रतानां परित्राणाय एव में निश्चयः। अस्य विप्रस्य याञ्चा वृथा मा अस्तु।
प्रश्ना
I. एकपदेन उतरत
(i) केन नेत्रदानार्थम् निश्चयः कृतः?
(ii) कस्य याचा वृथा मा अस्तु?
II. पूर्णवाक्येन उतरत
राज्ञः नेत्रदानाय निश्चयं ज्ञात्वा अमात्याः किम् अवदन्?
III. निर्देशानुसार विकल्पेभ्य: चित्वा शुद्धम् उत्तरं लिखत।
(i) ‘कामये” इति क्रियापदस्य कर्तपदं किम्?
(अ) राजा
(ब) अमात्याः
(स) स्वर्गम्।
(द) अहम्

(ii) ‘प्रभूतम्’ पदस्य अर्थम् अस्ति ।
(अ) अत्यधिकम्।
(ब) प्रचुरम्
(स) अस्तु
(द) कुरुते

(iii) पापतरस्तरत: पदे सन्धिच्छेदं कुरु
(अ) पापतरः + ततः
(ब) पाततर + ततः
(स) पापतरं + ततः
(द) पापत + तरत:

(iv) प्रतिज्ञाय पदे कः प्रत्ययः प्रयुक्तः?
(अ) ल्यप्
(ब) कत्वा
(स) तव्यत्
(द) शतृ

उत्तर
I. एकपदेन उत्तरम्
(i) राज्ञा
(ii) विप्रस्य
II. पूर्णवाक्येन उत्तरम्
व्याख्यात्मक हल-राज्ञः नेत्रदानाय निश्चयं ज्ञात्वा अमात्याः अवदन् महाराज! अलम् एतावता दुस्साहसेन प्रभूतं धनमेव दीयताम्।
III. निर्देशानुसारम् उत्तरम्

(i) (द) अहम् ।
(i) (अ) अत्यधिकम्।
(iii) (अ) पापतरः + ततः
(iv) (अ) ल्यप्

12. अधोलिखित शलोकयोः अन्वयं मञ्जूषातः समुचितं पदं चित्वा लिखत ।
(क) दास्यामीति प्रतिज्ञाय योऽन्यथा कुरुते मनः।
कार्पण्यानिश्चितमतेः कः स्यात् पापतरस्ततः।
अन्वयः- (i) ……………इति प्रतिज्ञाय (ii) ………. मनः अन्यथा कुरुते ततः कार्पण्य
(iii) ……….. ततः (iv) कः स्यात्
(ख) “जलबिन्दुनिपातेन क्रमशः पूर्यते घटः।।
स हेतुः सर्वविद्यानां धर्मस्य च धनस्य च ।”
अन्वयः- (i) …………. क्रमश: (ii) .’ पूर्यते।
सर्वविद्यानां…….. (iii) च धनस्य च सः (iv) हेतुः ||

मञ्जूषा
एव, धर्मस्य, जलबिन्दु निपातेन, दास्यामि घटः, यः पापतरः, अनिश्चित मतेः
उत्तर
अन्वय पूर्ति-
(क)
(i) दास्यामि
(ii) यः
(iii) अनिश्चित मतेः ततः
(iv) पापतरः
(ख)
(i) जलबिन्दु निपातेन
(ii) घट:
(ii) धर्मस्य
(iv) एव

13. रेखांकित पदानि आधृत्य प्रश्न निर्माण कुरुत।
(1) बालाः सृष्टिम् आधृत्य नाटिकायाः अभिनयं करिष्यन्ति ।
(2) प्रशस्त मार्गः अनुसरणीयः।
(3) कामात् क्रोधस्य उत्पत्तिः भवति ।
(4) मनसः प्रसन्नता रक्षणम् अत्यन्त आवश्यकम्।
उत्तर
प्रश्ननिर्माणम्
(i) काम्।
(ii) कीदृशः
(iii) कस्य
(iv) कस्य
व्याख्यात्मक हल
(1) काम् सृष्टिम् आधृत्य नाटिकायाः अभिनयं करिष्यन्ति ।
(2) कीदृशः मार्गः अनुसरणीयः।।
(3) कामात् कस्य उत्पत्तिः भवति ।
(4) कस्य प्रसन्नता रक्षणम् अत्यन्त आवश्यको।

14. प्रसङ्गानुसार रेखाकित पदानां शुद्धम् अर्थ चिनुत।
(1) मनोहर सुरम्ये तवाडग इति स्थले राजते अयं बौद्धमठः ।
(2) सः सव्येन पाणिना चक्रं गृहीतवान्।
(3) एव ज्ञानविज्ञाननाशनं प्रजहि।
(4) परमाहम अखण्डः शाश्वतः विभुः च ।
उत्तर
शब्दार्थ
(i) रमणीये
(ii) वामहस्तेन
(iii) नाशय
(iv) नित्यः

We hope the Solved CBSE Sample Papers for Class 10 Sanskrit Set 1, help you. If you have any query regarding CBSE Sample Papers for Class 10 Sanskrit Solved Set 1, drop a comment below and we will get back to you at the earliest.

LEAVE A REPLY

Please enter your comment!
Please enter your name here