CBSE Class 12 Sanskrit लघुकथा-लेखनम्

0
48

CBSE Class 12 Sanskrit लघुकथा-लेखनम्

(क) प्रदत्त शब्दसूचीसाहाय्येन लघुकथा-लेखनम्
प्रश्न:
प्रदत्तशब्दसूचीसाहाय्येन अधोदत्तां लघुकथां पूरयित्वा उत्तरपुस्तिकायां पुनः लिखतु भवान् –

1. वानर-सूचीमुख-कथा
शब्दसूची – हेमन्ते। कम्पमानाः। वानराः। गुञ्जाफलानि। वह्नि-वाञ्छया। फूत्कुर्वन्ति। सूचीमुखः। वृथायासम्। अवदत्। एते न वह्नि-कणाः। गुञ्जाफलानि। वृथा। श्रमेण। वानराः किं तव। अनेन। पक्षी। भूयः। आह-गिरिकन्दरम् अन्विष्यताम्। न व्यरमत्। कुपितवानरेण पक्षी आस्फालितः।
उत्तरम्:
हेमन्ते शीतेन कम्पमानाः वानराः गुञ्जाफलानि अवचित्य वह्निवाञ्छया फूत्कुर्वन्ति। तत्रागतः सूचीमुखः नाम पक्षी तेषां तं वृथायासम् अवलोक्य अवदत्-“भोः मूर्खाः, एते न वह्निकणाः गुञ्जाफलानि एतानि, तत् किं वृथा श्रमेण?” वानरैः उक्तम्- “भोः मूर्ख! किं तव अनेन व्यापारेण? तद् गम्यताम्।” असौ पक्षी भूयोऽपि वानरान् अनवरतम् आह – ” भोः, किं वृथा क्लेशेन? एतस्मात् शीतरक्षा न भविष्यति। कश्चित् सुरक्षित: निर्वात: वनप्रदेशः, गुहा, गिरिकन्दरं वाऽन्विष्यताम्।” यावत् असौ सूचीमुखः कथमपि प्रलपन् न व्यरमत्, तावत् एकेन कुपितवानरेण पक्षाभ्यां गृहीत्वा शिलायाम् आस्फालितः मृतश्च।

2. आत्मा एव मार्गदर्शकः गुरुः
शब्दसूची – गुरुः। शिष्यम्। एकान्ते। पक्षिशावकम्। हन्तुम्। आदिशत्। एकः शिष्यः अमारयत्। अपरः अकथयत्। कुत्रापि एकान्तस्थानं न लभे। पर्वतादयः मां धिक्कुर्वन्ति। गुरुणा कथितम्। त्वम् आत्मनः वाणीं शृणोषि। त्वं ज्ञानधारणे समर्थः। आत्मा एव गुरुः।
उत्तरम्:
गुरुः शिष्यम् एकान्ते पक्षिशावकं हन्तुमादिशत् अपरः शिष्यः कुत्रापि एकान्तस्थानम् अप्राप्य गुरोः समक्षं जीवितं पक्षिशावकम् एव समर्थ्य न्यवेदयत्-अहं पक्षिहनने असमर्थः अस्मि। यतः कुत्रापि एकान्तस्थानं न लभे। क्वचित् जनाः सन्ति। यत्र जनाः न सन्ति तत्रे पशुपक्षिणः विद्यन्ते। यत्र तेऽपि न सन्ति तत्र वृक्षलताः निर्झराः पर्वतादयः च सन्ति – एते वाक्शक्तिरहिताः भूत्वा अपि शावकवधस्य दुष्कर्मणि निरतं मां धिक्कुर्वन्ति। यदि क्वचित् वृक्षलतादयः अपि न सन्ति तदा हृदयस्थः ममान्तरात्मा मन्दस्वरेण मां कथयति-यत् त्वं करोषि तदहं पश्यामि इति।। सर्वं श्रुत्वा गुरुणा कथितम्-त्वमेव ज्ञानधारणे समर्थः। वत्स, तव मन: शुद्धम्। शुद्धमनसा एव जनः यथार्थनिर्णयं कर्तुं शक्नोति। स आत्मनः वाणीं शृणोति। आत्मा एव सर्वस्य शाश्वत: मार्गदर्शकः गुरुः।

3. सत्यभक्तः किरातः
शब्दसूची – सत्यभक्तः किरातः। प्रभाते। प्रतिदिनम्। किरातः। मांसादिना। पूजाम् अकरोत्। ब्राह्मणाः अक्षिपन्। दिनत्रयम् अयं क्रयः। कुपितः। ब्राह्मणः। किरातम्। मारयितुम्। तत्परः। विचित्रा लीला। शिवलिङ्गस्य नेत्रात् रक्तम् प्रावहत्। किरातः स्वनेत्रं तत्र अयोजयत्। ब्राह्मणः किरातस्य पादयोः अपतत्।
उत्तरम्:
प्रभाते प्रतिदिनम् आगत्य किरात: पूर्ववत् मांसादिभिः पूजाम् अकरोत्। तदनन्तरं ब्राह्मणः आगत्य सर्वम् उत्थाप्य अक्षिपत्-अयं क्रमः दिनत्रयं यावत् अचलत्। अन्ततोगत्वा परमकुपितः ब्राह्मण: अचिन्तयत्-“अहं श्वः प्रभाते आगत्य अवश्यं तं धरिष्यामि यः नित्यं मन्दिरं मलिनं करोति, तथा च तं ताडयिष्यामि येन असौ ईदृशम् अकार्यम् कार्यं पुनः कदापि ने करिष्यति।” विचित्रा भगवल्लीला। आगामिनि दिने किरात: अपश्यत्-दिने शिवलिङ्गस्य नेत्रात् दक्षिणवामपाश्र्वाभ्यां रक्तम् प्रावहत्। किरातः, “भगवन्! नेत्रहीनस्त्वं कथं द्रक्ष्यसि” इति कथयित्वा शराग्रेण स्वनेत्रे उत्पाट्य शिवलिङ्गस्य रक्ताक्तस्थानयोः योजयति स्म। तद् दृष्ट्वा प्रसन्नो भूत्वा ब्राह्मणः किरातस्य पादयोः अपतत्। प्रभुकृपया किरातः पुनः दृष्टिं प्राप्नोत्। सत्यभक्तस्य तादृशं माहात्म्यं भवति।

4. सचिवस्य ईश्वरनिष्ठा
शब्दसूची – राज्ञः। अङ्गुली। छिन्ना। प्रभुभक्त: अकथयत्-सर्वभूतहितेरत परमेश्वरः यत्करोति शोभनमेव करोति। सचिवस्य पुत्रः मृत:। तदापि तदेव भक्तवाक्यम्। एकदा दस्युराज: बलिकार्याय। नृपम् सचिवम् अगृह्णात्। देव्यै अङ्गहीनस्य, अपुत्रस्य च बलिः न दीयते। अत: उभौ अत्यजत्। नृपः सचिवम् पुरस्करोति।
उत्तरम्:
एकदा राज्ञः अङ्गुली वृश्चनेन छिन्नाऽभवत्। तेन नृपः भूयसीं पीडाम् अन्वभवत्। सर्वे मन्त्रिणः आगत्य नृपाय सान्त्वनावचांसि अवदन्, परं प्रभुभक्तस्य सचिवस्ये मुखे तस्मिन्नवसरे अपि तदेव वाक्यम् आसीत्, सर्वभूतहिते रतः परमेश्वरः यत्करोति, शोभनमेव करोति’ इति। अस्य मन्त्रिणः तद्वचनम् आकर्त्य नृपः सचिवायाक्रुध्यत्। काले गते नृपस्य पीडा शान्ताऽभवत्। तदा सः सचिवम् अपृच्छत्। “हे सचिव! कथय, तव पुत्रः मृतः, मम चाङ्गुली छिन्ना, अत्र सर्वभूतहिते सः तव परमेश्वर: किं शोभनम् अकरोत्?” सचिव: शान्तभावेन नृपाय न्यवेदयत्-प्रश्नोऽयं समीचीनः, तथा च अस्य उत्तरमपि दातुम् अधुनाऽहं समर्थो नास्मि, किन्तु । कालान्तरे आवाम् तस्य कथनस्य सत्यताम् अवगमिष्याव:

एकदा राजा सचिवमादाय आखेटाय गतः। तत्र वने सहसा केचन दस्यवः उभौ गृहीत्वा दस्युराजं समुपागताः। तत्र च उभयोः कृते आदेशोऽभवत् यत् देव्यै तयोः बलि: दीयताम्। दस्युराजस्य आदेशं परिपालयितुं यदा सर्वं बलिकार्यं सज्जम् आसीत् तदा दस्युराजेन सचिवः पृष्टः-‘अस्ति तव पुत्र:?’ सचिवः अवदत्-‘नास्ति’। दस्युराज: अकथयत्-देवी अपुत्रस्य बलिं न गृहणाति। तर्हि मुञ्चैनम्। तदनन्तरं बलिं दातुं यदा नृपः दस्युराजस्य पुरत: आनीतः तदा तस्य छिन्नाम् चालीं दृष्ट्वा दस्युराज: अकथयत्-“देवी अङ्गहीनस्य अपि बलिं न वाञ्छति। अत: एनम् अपि मुञ्च।” एवं मुक्तः नृपः राज्यसभाम् आगत्य घोषणां कृतवान् – “सर्वभूतहिते रतः परमेश्वरः यत् करोति, शोभनमेव करोति प्रसन्नवदनः सः नृपः तस्मै सचिवाय सबहुमानं पुरस्कारस्वरूपां निजरत्नावली प्रायच्छत्।”

5. वीर बालकः अभिमन्युः
शब्दसूची – अभिमन्युः निजबलेन। युद्धभूमिम् अगच्छत्। चक्रव्यूहस्य भेदने सफलः। अभिमन्योः सैनिकाः तत्र न प्राविशन्। सप्तमे प्रवेशद्वारे सप्तमहारथिनः मिलित्वा युगपद् आक्रमणम् अकरोत्। युद्धमर्यादा न पालिता। वीरगतिम् प्राप्तवान्। धन्या वीरभूमिः।
उत्तरम्:
अभिमन्युः निजबलेन सह युद्धभूमिम् अगच्छत्। सः एकाकी एव चक्रव्यूहस्य प्रवेशद्वारं भेदने सफलोऽभवत्, तस्य सैनिकेषु कोऽपि योद्धा अन्तः प्रवेष्टुं न समर्थः।। साहसी बालक: एकाकी एव षट् प्रवेशद्वाराणि त्रोटयित्वा चक्रव्यूहस्य अन्तः प्राविशत्। सप्तमे प्रवेशद्वारे तस्य सप्तमहारथिभिः सह घोर युद्धं जातम्। वीर बालकस्य अतुल्या बाणवृष्टिं दृष्ट्वा सर्वे महारथिन: मिलित्वा तस्योपरि युगपदेव आक्रमणम्। अकुर्वन्। एकत: एकाकी बालकः आसीत्, अपरत: युद्धकलानिष्णाताः सप्त महारथिन:! कुत्र गता युद्धमर्यादा? चिरकालं यावत् युद्धं कुर्वन् अन्तत: स: वीरः वीरगति प्राप्तः। धन्योऽयं वीरबालकः। धन्या चेयं वीरभूमिः यत्र एतादृशाः वीराः बारम्बार जायन्ते।

6. पुनर्मूषको भव
शब्दसूची – योगसिद्धिः। दयार्द्रः। विडालम्। कुक्कुरम्। कुक्कुरात्। सिंह। कृतवान्। सिंहः अचिन्तयत्-जनाः मम| अपकीर्ति कथयन्ति यावत् मुनिः जीवति। आक्रमणे तत्परः। मुनिः अशपत्-पुनः मूषकः भव।
उत्तरम्:
दयाद्रमुनिना योगसिद्धिना प्रथमं मूषक: विडालः कृतः, तदा कुक्कुरात् रक्षितुं विडालात् सः कुक्कुरः कृत। कुक्करो भूत्वा इतस्तत: निर्भयं परिभ्रमन् असौ सिंहेन दृष्टः। सिंहात् रक्षाम् इच्छन् कुक्करोऽयं मुनेः शरणं प्राप्तः। सिंहात् कुक्करस्य रक्षा कुर्वन् योगसिद्धः मुनिः कुक्कुरस्योपरि जल परिसिञ्चन् अवदत्- ‘सिंहो भव’। मुनौ एवम् वेदत्येव कुक्कुरः सिंहोऽभवत्। आश्चर्यम् आश्चर्यम्’ इति वदन्तः सर्वे मुनयः कथयन्ति स्म-‘धन्यः एषः योगसिद्धिः, यस्य कृपया मूषक: सिंहोऽभवत्।’ तत् श्रुत्वा कृतघ्नः सिंह: अचिन्तयत्-‘यावद् अयं मुनि: जीवति तावद् मम स्वरूपस्य अपकीर्तिः भविष्यति। अतोऽहं मुनि मारयित्वा कथं न निश्चिन्तो भवामि।’ एतद् विचार्य निजबलेन दृढं दृप्त: सिंह: मुनिं मारयितुम् आगतः। योगसिद्धिः सिंहस्य दुर्भावं ज्ञात्वा अशपत्-‘पुनर्मूषको भव’। मुनेर्वचनात् कृतघ्नः सिंहः पुनः मूषकोऽभवत्। विडाल: मूषकं दृष्ट्वा तं निजाहारम् अकरोत्।

(ख) रिक्तस्थानपूर्ति-माध्यमेन लघुकथा-लेखनम्
प्रश्न:
अधोलिखितै: पदैः वाक्यानि प्रयूर्य कथा पुनः लिखत

1. राज्ञः भोजस्य दर्शनाय सः कलिङ्देशम् …………. मासं यावत् तत्र व्यवसत्, परं सः राजानं नापश्यत्। तस्य …………….. अपि परिसमाप्तम्। ……….. नृपः …………… बहिर्निर्गत:। तदा कवि: राजानं ……………. अकथयत्-श्री भोजराजं पश्यन्नेव तत्क्षणं रिपोः शस्त्रं, कवेः कष्टं, मृगीदृशां नीवीबन्धः च भूमौ ………….. । तच्छ्रुत्वा राजा कवये ……………… ददौ यदा राजा मृगयासक्तः आसीत् तदा कश्चित् व्याधसुतः एक गीतम् अगायत्। गीतस्य । ………………….. प्रसन्न्नो भूत्वा राजा ……………… पञ्चलक्षं ……………. ।
मञ्जूषा – मृगयाभावेन। पाथेयम्। दृष्ट्वा। माधुर्येण। गायकाय। लक्ष। ददौ। पतन्ति। उपेत्य। एकदा।
उत्तर:
उपेत्य। पाथेयम्। एकदा। मृगयाभावेन। दृष्ट्वा। पतन्ति। लक्षं। माधुर्येण। गायकाय। ददौ।

2. कस्मिश्चिद् …………….. एकः साधुः प्रतिवसति स्म। स ……………. भिक्षायै नगरं गच्छति स्म। एकदा सः भिक्षायै एकं गृहम् अगच्छत् यत्र एका ……………. अवसत्। क्रोधात् सा विषाक्ताम् एकां रोटिकां तस्मै साधवे …………….। सः नीत्वा ……………। अन्यस्मिन् दिने …………… स्त्रियाः पुत्रः कस्माच्चित् नगरात् प्रत्यागच्छति स्म। सः बभुक्षितः आसीत्। अतएव कुटीरं गत्वा स: ……………… भोजनम् अयाचत्। साधुः तस्मै …………… प्रायच्छत्। भक्षणोपरान्तं स ……………… । यः यथा करोति स …………….. फलम् आप्नोति।
मञ्जूषा – प्रतिदिनं। रोटिकां। तथैव। मृतः। साधु। तस्याः। अयच्छत्। अगच्छत्। वने। स्त्री।
उत्तरम्:
वने। प्रतिदिनं। स्त्री। अयच्छत्। अगच्छत्। तस्याः। साधुः। रोटिका। मृतः। तथैव।

3. एकं महावनं कश्चित् …………….. अधिवसति स्म। एकदा तद्देशाधिपः तद् वन-मार्गेण गतः। तेन ………….. भूपतिः भणित:-पूर्वं न सत्कृतः, न ईषद् अपि सादरम् …………….. वा। तस्मात् स नृपः आत्मनः …………………. अवदत्-अयं संन्यासी मम मतेन साक्षात् पशुः, यतः सः शिष्टाचाराद् …………… । सचिवः तमुपेत्य उवाच-गतस्य राज्ञः ………………….. कथं त्वया सप्रश्रयं प्रणामो न कृतः? अतः त्वं ……………………. मे भासि। इदमाकर्त्य स प्रत्यवदत्-ये नृप-प्रसादनोत्सुकाः ते एव नृपं …………….. तद्गत …………….. वदन्ति, तं परितः लांगूल-चालनं कुर्वन्ति चेति मद्-वचनात् स राजा ………………… ।
मञ्जूषा – प्रमत्तः। स्तुवन्ति। वाच्यताम्। त्वत्पाश्र्वेन। अनभिज्ञः। ईक्षितः। संन्यासी। यतिना। चाटुवचनानि।।
उत्तरम्:
संन्यासी। यतिना। ईक्षितः। सचिवम्। अनभिज्ञः। तवत्पार्वेन। प्रमत्तः। स्तुवन्ति। चाटुवचनानि। वाच्यताम्।

4. कस्मिश्चिद् वने एकस्मात् …………….. अधः एकः सिंहो निद्रया ……………….. आसीत्। तस्य केसराणाम् उपरि …………….. मूषकोऽनृत्यत्। सिंहः प्रबुद्धोऽभवत् मूषकं च यदा ” प्रावर्तत तदा मूषको न्यवेदयत्- “ भवान् मृगराजोऽस्ति , मां …………………. प्रति दयां कुरु।” सिंहस्तं …………….. । एकदा स एव सिंहः कस्मिश्चिद् …………………. आपतितः। मूषकः प्रत्यकारत्वेन जालम् अकृन्तत्। सिंहो ………………… प्रशंसन् गतः। सत्यमिदं यत् केनापि ………………… कृतः उपकारो ……………. न भवति।
मञ्जूषा – सह। मूषकं। निरर्थकः। दीनं। जाले। परिभूतः। वृक्षात्। हन्तुम्। मुक्तवान्। कश्चित्।
उत्तरम्:
वृक्षात्। परिभूतः। कश्चित्। हन्तुम्। दीनं। मुक्तवान्। जाले। मूषकं। सह। निरर्थकः।।

5. ……………… कश्चित् नृपः ……………..: सह पोतोपविष्टः आसीत्। जन्मनः ……………….. नैकवारमपि तेन । जल-प्रवासः कृतो न वा तस्य किमपि ……………….. आसीत्। जलयानम् आरुढमात्रः स मुक्तकण्ठं …………… आरभत। तस्य अनेन आक्रन्दनेन सर्वे …………… आसन्। तस्मिन् …………….. निषण्णानां जनाना मध्ये एकः चतुरः ………………. आसीत्। सोऽब्रवीत्-भवद्-अनुज्ञया ……………. सान्त्वयामि। तेऽब्रुवन्-यदि भवान् तथा करोति तर्हि अस्मासु महद् ……………. भवेदिति।
मञ्जूषा – अनुग्रहः। प्रभृति। दासेन। रोदितुम्। जलयाने। एकदा। अहम्। भयभीताः। नौर्जानम्। चिकित्सकः।
उत्तरम्:
एकदा। दासेन। प्रभृति। नौर्शनम्। रोदितुम्। भयभीताः। जलयाने। चिकित्सकः। अहम्। अनुग्रहः।

6. शीतकाले सम्प्राप्ते पृथ्वी हिमेन ……………………. अभवत्। सर्वे ……………… विहगाः वृक्षे निलीय समुपविष्टाः। असौ …………….. वराक: घासवल्गी क्षुधापीडितो जातः। हताशो म्रियमाणश्चासौ पिपीलिकाम् …………….. पिपीलिका तस्य ……………….. दशां दृष्ट्वा व्यचिन्तयत्-अयं ………………. अधुना मम साहाय्यं याचितुम् आयातः। सा तमपृच्छत् – “बन्धो! कुत: आयाति भवान्? सुखिनस्तव किं जातम्? हे सखे! तव दुर्दशां दृष्ट्वा मम भृशं दु:खं भवति। ……………… वचनं श्रुत्वा करबद्धः स घासवल्गी अकथयत् भद्रे! क्षमस्व। कृपया क्षुधिते मयि ……………. सा पिपीलिका अवदत्-“मित्र! अस्मिन् वारे तु अहं। …………………. क्षमे। भविष्ये मैवम् आचर।” इति कथयित्वा सा तस्मै ……………….. प्रायच्छ त्।
मजूषा – पिपीलिकायाः। दीनहीनां। वल्गी। शीतकातराः। आच्छादिता। उपागमत्। भोजनं। दयस्व। अलसः। त्वां।
उत्तरम्:
आच्छादिता शीतकातराः। अलसः। उपागमत्। दीनहीनां। वल्गी। पिपीलिकायाः। दयस्व। त्वां। भोजनं।

अभ्यासार्थ
1. अधोलिखिताः लघुकथाः पठित्वा मञ्जूषावाञ्च सहायतया रिक्तस्थानां पूर्तिं करोतु भवान्। (1/2 x 10 = 5)
(क) रामायणे इदं वर्णितं यत् एकदा स्व (i) …………… जनकपुत्री सीता शृङ्गारम् अकरोत्। सा षोडशशृङ्गारं कृत्वा स्वशिरसि सौभाग्यचिह्नं सिन्दूरम् अरचयत्। एतद् दृष्ट्वा श्रीहनुमान् (ii) …………….. अपृच्छत्“मातः। भवती कथं (iii) ……………… स्वमस्तके सिन्दूरं रचयति।” माता सीता अवदत्-“प्रियवर! अनेन (iv) स्वामिनः आयुः (v) …………… सः प्रसीदति अपि। अतः अहम् एवं करोमि।” एतच्छुत्वा हनुमान् ततः (vi) …………… । एकस्मिन् दिवसे श्रीहनुमान् सम्पूर्ण शरीरे (ii) …………… लिम्पित्वा राजसभाम् आगच्छत्। तदा तस्य रक्तवर्ण (viii) …………… दृष्ट्वा सर्वे जनाः अहसन्। कारणं पृष्टे सति हनुमान् अवदत्-“माता अवदत्-सिन्दूरेण स्वामिनः प्रसन्नता आयुश्च वर्धेते, अतः अहमपि तेन कारणेन एव (ix) …………….. शरीरे सिन्दूरम् अलिम्पम्।” एतच्छुत्वा (x) ……………….. प्रसन्नः भूत्वा तस्य अलिङ्गनम् अकरोत्।

मञ्जूषा – शरीरम्, श्रीरामः, वर्धते, शृङ्गारकक्षे, प्राचलत्, स्वसम्पूर्णे, प्रतिदिनम्, सिन्दूरम्, सीताम्, सिन्दूरेण।

(ख) एकदा ऋषिः दयानन्द: वैदिकधर्मस्य प्रचारं कुर्वन् ‘अनूपशहर’ नामकम् एकं (i) …………….. अगच्छत्। तत्र तस्य सत्सङ्गे अनेके नराः नार्यः च आगत्य तस्य अमृतवचनं श्रुत्वा (ii) ………………….. धन्यं कुर्वन्ति स्म। अतः तस्य अनुयायिनां सङ्ख्या अपि अवर्धत। ते सर्वे ऋषिं प्रति (iii) ……………….. अपि धारयन्ति स्म। एतद् दृष्ट्वा तस्य विरोधिनः ईर्थ्यया दग्धाः अभवन्। ते स्वामिदयानन्दं (iv) …………….. अपि प्रयत्नम् अकरोत्। एकस्मिन् दिवसे एकस्मै युवकाय (v) ……………… दत्वा तस्य हस्तेन ऋषि दयानन्दं ताम्बूले विषम् प्रदापयन्। एतत् ज्ञात्वा योगविद्यया (vi) ………………. च ऋषिः तद् विषं बहिः निस्सार्य स्वस्थाने आगच्छत्। इदं वृत्तान्तं ज्ञात्वा स्वामिदयानन्दस्य (vii) ……………. आरक्षकः निरीक्षकः (पुलिसनिरीक्षक:) सैयद मोहम्मदः तम्। (viii) …………… बन्धनेन बद्ध्वा स्वामिनः समीपं नीतवान्। दण्डार्थञ्च स्वामिने निवेदितवान्। एतच्छुत्वा ऋषिः गम्भीरस्वरेण अकथयत्-‘भवान् एनं मुञ्चतु। अहं कञ्चिदपि जनं बंधने पातयितुं न आगच्छम् अपितु संसारं (ix) …………….. मोक्तुम् आगतवान्।’ एतत् कथयित्वा सः तं बन्धनात् मोक्तवान्। धन्यः आसीत् सः ऋषिः (x) …………… सरस्वती।

मञ्जूषा – अपराधिनम्, धनम्, मुस्लिमभक्तः, नगरम्, बन्धनात्, मारयितुम्, न्यौलीक्रियया, स्वामिदयानन्द, भक्तिभावम्, आत्मानं।

(ग) अहिंसायाः साक्षात्प्रतिमा भगवान् (i) …………….. एकदा कोसलदेशस्य राजधानी श्रावस्तीम् अगच्छत। तदा तत्र नृपः प्रसेनजितः (ii) …………….. अकरोत्। सायंकाले भगवत: प्रवचने श्रोतृणां सङ्ख्या (iii) ………….. आसीत्। तस्याः कारणं भगवता पृष्टम्। तदा जनाः नृपश्च बिभेत्य नृशंसस्य दस्योः अङ्गुलिमालस्य (iv) ………………. अकुर्वन्। एतद् ज्ञात्वा भगवान् बुद्धः तं प्रति (v) ………….. गतवान्। विपिने महात्मानं बुद्ध दृष्ट्वा (vi) स्थातुम् अकथयत्। तं भयङ्कराकृतिं दृष्ट्वा अपि न बिभेत्य बुद्धः अकथयत्-“पुत्र! तव (vii) ………….. अहं तु अतिष्ठम् परं त्वं कदा स्थास्यसि।” सः पुनः तं शिक्षयन् विस्तारेण कथितवान्-“वत्स! अस्मिन् संसारे पूर्वस्मात् एव अनेकानि (viii) ……………. सन्ति तानि निरन्तरं जनान् पीडयन्ति। त्वं (ix) ……………….. कथं तानि वर्धयसि अतः त्वं तेभ्यः विरम।” बुद्धस्य उपदेशं श्रुत्वा मत्वा च सः दस्युः (x) ……………. निक्षिप्य तस्य चरणयो: अपतत् तस्य चे भक्तः अभवत्।

मञ्जूषा – अङ् गुलिमाल:, स्वखड्गं, अतिन्यूना, बुद्धः, राज्यम्, वनम्, कष्टानि, स्वपापाचरणैः, चर्चाम्, कथनेन।

(घ) महाभारतयुद्धात् पूर्वम् एकदा कौरवपाण्डवेषु सन्धिं कारयितुं योगेश्वरः (i) ……………. हस्तिनापुरं गतवान्। सः राजसभां गत्वा सम्राजं (ii) ……………. अवदत्-‘राजन्! कौरव-पाण्डवाः भवतामेव पुत्राः सन्ति। अतः तेषां मध्ये युद्धः न भवेत्। एतदर्थं भवान् एव (iii) …………………. कुर्यात्। अर्धराज्यस्य उत्तराधि कारिभ्यः (iv) …………. यदि अर्धं राज्यं न दत्त्वा अपि भवान् पञ्चग्रामान् एव यच्छेत् तदा अपि (v) ………………… सन्तुष्टाः भविष्यन्ति महाविनाशकारी युद्धश्च न भूत्वा सर्वत्र शान्तिः , सुखं सम्पन्नता: च भविष्यन्ति। एतच्छुत्वा युवराजः (vi) …………….. अगर्जत् अकथयत् च-“श्रूयताम् गोपाल! अहं (vii) …………… विना राज्यं नाम तु किं सूच्याः अग्रभागमात्रको (viii) ………….. न दास्यामि।” एतत् श्रुत्वा श्रीकृष्णः ततः निर्गत्य स्वभक्तस्य (ix) ……………. गृहं गत्वा तत्र शाकं (x) ……………….. अखादत्।

मञ्जूषा – युद्धेन, प्रसन्नतया, धृतराष्ट्रम्, दुर्योधनः, विदुरस्य, धराम्, श्रीकृष्णः पाण्डवेभ्यः, पाण्डवाः, प्रयत्नम्।।

2. छात्रस्य आत्मकथा विषयमधिकृत्य मजूषायां दत्तानाम् शब्दानां सहायतया रिक्तस्थानपूर्तिः क्रियताम्। अहमेकः छात्र: अस्मि। मम (i) ………………. प्रहर्षोऽस्ति। अहम् दिल्ली नगरस्य (ii) ……………. प्रतिष्ठिते (iii) …………….. दशम्यां कक्षायां पठामि। मम विद्यालयः चतुर्दिक् क्षेत्रे (iv) ……………….. अस्ति। अहं स्वगृहात् प्रातरेव सप्तवादने विद्यालयस्य (v) …………….. पठितुं गच्छामि। वाहने अन्येऽपि मम (vi) ……………… मिलन्ति, यैः सह अहम्मनोरञ्जनं कुर्वन् विद्यालयं गच्छामि। तत्र विद्यालयस्य परिश्रमिणः (vii) …………… अस्मान् श्रद्धया पाठयन्ति। तेषां सङ्गतिम् प्राप्य अहमतिप्रसन्नो भवामि। मम विद्यालये देशस्य (viii) …………… नेतारः, क्रीडकोः, अभिनेतारः, वैज्ञानिकाः अपि (ix) ………….. समागच्छन्ति स्वजीवनविषये च छात्रान् (x) ………….

मञ्जूषा – शिक्षकाः, बोधयन्ति, एकस्मिन्, अभिधानम्, यथासमयम्, प्रसिद्धाः, सहपाठिनः, प्रसिद्धः, वाहनेन, विद्यालये।

3. निम्नानुच्छेदे रिक्तस्थानानि मञ्जूषायां दत्तानां पदानां सहायतया सम्पूरयत। मम नाम संस्कृतिः। संस्कृतं संस्कारज इमौ मम (i) …………… स्तः। जीवनस्य (ii) ………….. एव संस्कृतिः। मामाधृत्य एव जनाः (iii) …………… भवन्ति। ते स्वजीवने (iv) …………. भवन्ति। संस्कारेण मानवजीवने (v) …………. भवन्ति, आदरञ्च लभते। इसे संस्कारा एव (vi) …………… संस्कुर्वन्ति। संस्कृतिः संस्कारश्च (vii) …………….. एव प्राप्तुतः। यत: संस्कृतग्रन्थाः एव तादृश्यः निधयः सन्ति याभिः (viii) …………… अनेक प्रकाराणि सुखानि प्राप्य (ix) …………… स्वजीवनं सफलीकर्तुम् पारयन्ति। अतः एतेषाम् त्रयाणां प्राप्तिः कृत्वा एव मानवः स्वजीवने (x) ………….. भविष्यन्त।

मञ्जूषा – जनान्, सफलाः, संस्कृतेन, भ्रातरौ, सफलाः, जनाः, आधारः, एव, परिश्रमशीला, संस्कृताः।

4. निम्नलिखितमनुच्छेदस्य रिक्तस्थानानि मञ्जूषायां दत्तानां शब्दानां सहायतया सम्पूरयत। पुरा (i) …………… त्रयः एव विश्वविद्यालयाः आसन्-तक्षशिला, विक्रमशिला नालन्दा च। तेषु (ii) …………….. केवलं नालन्दा विश्वविद्यालये (iii) ………….. शिक्षा दीयते स्म। एवमेव तस्मिन्नेव (iv) ………….. कृषिः, आयुर्वेदः, पशुविज्ञानं, कला शिल्पानाञ्च (v) …………… दीयते स्म। अतः सप्तवर्षीयः सन् (vi) ………… पञ्चविद्याः अधीतवान्। तासु शब्द विद्या-शिल्पस्थानम्-आयुर्वेद:-हेतुविद्या-आध्यात्मिकी च विद्याः आसन्। एताः (vii) …………… पठित्वा छात्रा: सत्या (viii) ……………. विवेकी जीवनदर्शनं च जानन्ति स्म। तदा भारतीय विज्ञान- (ix) ……………….. अति उत्कृष्टा मानवीयमूल्ययुक्ती च आसीत्। तदैव अस्माकं देशः (x) ……….. खगः’ कथ्यते स्म।

मजूषा – शिक्षा, भारतम्, भारते, छात्रः, विश्वविद्यालयेषु, बौद्धदर्शनस्य, विद्याः, परम्परा, सत्य, विश्वविद्यालये।

5. केशवदासेन ब्राह्मणेन कथितं निम्नानुच्छेदम् अधोदत्तेषु शब्देषु उचितं शब्दम् नीत्वा सम्पूरयत। श्रुयताम्। (i) …………..: खलु केशवदासो नाम (ii) ……………… अस्मि। महाराजेन (iii) ………… अहम् (iv) ………………….. स्थापितः। (y) …………… दुर्योधनेन पुनः (vi) ………. निष्कासितः। अधुना अहं कि करवाणि? (vii) ……………. अहम् महाराजमपि उपागतः परं (viii) …………….. न (ix) . कृतम्। अहमतिभीतोऽस्मि। अतः उत्तरस्यां दिशि (x) …………… सकाशं अधुना प्रस्थितोऽस्मि।

मजूषा – तेन, स्वमातुलस्य, अहम्, किञ्चिद्, युधिष्ठिरेण, युवराजेन, ततः सपरिवारम्, ब्राह्मण:, इन्द्रप्रस्थे।

6. निम्नलिखित कथामाधृत्य उचितैः पदैः रिक्तस्थानपूर्तिः कर्तव्यो। उज्जयिन्याम् (i) ……………. नाम विप्रः अवसत्। तस्य भार्या तम् (ii) …………….. स्वबालापत्यस्य रक्षार्थ अवस्थाप्य (iii) …………….. गतवती। तत्पश्चात् विप्रः राज्ञा (iv) …………. निमन्त्रितः। ब्राह्मणः ………….. अचिन्तयत्-यदि (vi) ……………… शीघ्रं तत्र न गमिष्यामि तदा तु तत्र कश्चित् अन्यः आगमिष्यति। अथ सः बालरक्षार्थं एकं पुत्रवत् पालितं (vii) ……………… व्यवस्थाप्य गतवान्। पश्चात् प्रत्यावृत्य सः (viii) ……………… मुखपादं नकुलं दृष्ट्वा , ‘अनेन बालको खादितः’ इति अवधार्य तम् उपकारकं (ix) ……………….. व्यापादितवान्। तत्पश्चात् गृहं गत्वा बालकं सुस्थं सर्वं च मृतं दृष्ट्वा सर्वा कथां अनुमानितवान्। ततः परं (x) …………. विषादमगमत्।

मञ्जूषा – नकुलं, रक्तविलिप्तं, माधवः, स्नातुं, सहजदारिद्रयात्, ब्राह्ममणः, नकुलं, अहम्, ब्राह्मणं, श्राद्धार्थं।

7. निम्नकथामाधृत्य मञ्जूषायाः पदानां सहायतया उचितैः पदैः रिक्तस्थानानि पूरयन्ताम्।। पुराभारते महातपी नाम एक: (i) ………………. मुनिः आसीत्। एकदा सः वने उपविष्टः आसीत् तदैव एका (ii) ……………. तमुपरि विष्ठामुदसृजत्। तदा मुनिः ताम् क्रोध-दृष्ट्या अपश्यत् अतः तस्य-प्रभावेण सा (ii) ………….:” अभवत्। अनेन महर्षिः अहङ्कारमुपगतः। सः एकदा एकं ब्राह्मण (iv) …………….. गत्वा तद्गृहिणि भिक्षामयाचत्। सा पतिसेवाम् कुर्वन्ती आसीत्। सा तस्मै (v) ………………… स्थातुमकथयत्। सः क्रुद्धदृष्ट्या तामपश्यत्। तमेवं (vi)……………. सी हसित्वा अकथयत् मुने! नाहं (iii) ……………. इति। तच्छुत्वा (viii)…………….चकितोऽभवत्। कथितवान् च त्वया इदं (ix) ……………. ज्ञातम्? मह्यमुपदेशं यच्छ’। ततः सावदत्-अहं तु एका सामान्या (x) ………………. अस्मि। पतिसेवाम् अन्य किञ्चिन्न जानामि।

मञ्जूषा – बलाका, भस्मीभूता, दृष्ट्वा, वनवासी, गृहम्, कथम्, गृहिणी. बलाका, किञ्चिद्, मुनिः।

8. अधोलिखितमनुच्छेदं मञ्जूषायां रिक्तस्थानानि दत्तानां शब्दानां सहायतया समुचितं सम्पूरयत। पुराकाले भागीरथीतीरे पाटलिपुत्रनामधेये नगरे (i) ………………. नाम नृपोऽवसत्। सः एकदा विचरन्। (ii) ……………. श्लोकद्वयं शुश्राव। तयोरर्थमासीत् यत् (iii) ……………. कृते किञ्चिदसाध्यं नास्ति। विद्याहीना: संसारे (iv) ……………… भवन्ति। अत: कठिनं (v) ……………….. कृत्वा अपि विद्याप्राप्ति: कर्तव्या। तस्य नृपस्य (vi) ……………. अपि विद्याहीनाः आसन्। अत: नृपः अतिदु:खितः आसीत्। एकदा सः सर्वान् (vii) …………….. आहूय तेभ्यः स्वकष्टमकथयत्-भो मन्त्रिणः। भवन्त: सर्वे एवं (viii) ……………….. कुर्वन्तु, यतः में पुत्राः विद्यायुक्ताः भवेयुः। एकदा तस्य (ix) ………………… शर्मा नाम विद्वान् आगच्छत्। नृपः तस्मै (x) …………….. शिक्षितान् कर्तुं प्रार्थितवान्।

मञ्जूषा – मन्त्रिणः, स्वपुत्रान्, सुदर्शनो, शोभाहीनाः, परिश्रमं, कुत्रचित्, पुत्राः, राजसभायां, प्रयत्नं, प्रयत्ने।

9. निम्नानुच्छेद मजूषातः समुचितं पदमादाय रिक्तस्थानानि सम्पूरयत।एकदा मथुरायां शिक्षाप्राप्ति (i) …………….. स्वामिविरजानन्दम् स्वामिदयानन्दोऽवदत् ‘गुरुवर! मम शिक्षाग्रहणे (ii) ………………. अतिप्रयत्नं कृतम्। एतदर्थम् अहम् (iii) ………….. धन्यवादी अस्मि। मम योग्य सेवां कथय। अहं किं (iv) ……………. भवत्सेवायां यच्छानि? दयानन्दस्य एतां वार्ता (v) ……………….. स्वामि (vi)………….. गम्भीर: भूत्वाऽवदत्। पुत्र! किम् मया एतदर्थमेव (vii) ……………. पाठितः आसी:? मां कस्यचिदपि वस्तुनः (viii) ………….. आवश्यकता नास्ति। संन्यासी (ix) ………….. द्धः तमवदत् गुरूवर! कथय अहं भवत्सेवायां स्वजीवनमपि अर्पयिष्यामि। एतत् श्रुत्वा (x) ………………. प्रसन्नः अभवत्।

मञ्जूषा – विरजानन्दः, काले, दयानन्दः, श्रुत्वा, अधुना, वस्तु, भवता, त्वम्, गुरु विरजानन्दः भवताम्।

10. एकः छात्रः रात्रौ शिरसः अधः पुस्तकं सथापयित्वा सुप्तः। सन्त्रस्तं पुस्तकम् आत्मवेदनां वर्णयति। मञ्जूषातः पदानि चित्वा वर्णने रिक्तस्थानानि पूरयत। सन्त्रस्त-पुस्तकस्य आत्मवेदना अहं पुस्तकम्। यः एषः (i) ……………… उपरि शिरः प्रस्थाप्य स्वपिति, सः मम स्वामी अस्ति। अहं तु अतीव (ii) ……………………। तेन स्थान-स्थाने मम पृष्ठेषु लेखन्या (iii) ………… कारिताः। मम पृष्ठानाम् अधिकांशाः कोणाः तु परिवर्तनेन (ii) ……………..: जाताः। नानावणैः (v) …………….. मम चित्राणि अस्य द्विवर्षीयभ्रात्रा नष्टीकृतानि। सः माम् (vi) ……………. स्थापयित्वा क्रीडामग्न: भवति। तेन (vii) ………….. मुखम् एवं कृष्णमसी (viii) …………… कृतम्। मया श्रुतं बालकेषु कृतान् अत्याचारान् अधिकृत्य मानवधिकारदिवसाः (ix) ………………. अहं कथयामि यत् अधुना पुस्तकाधिकारदिवसः अपि आयोजनीयः येन मदीयबन्धु| (x)…………….. अपि जीवनरक्षा स्यात्।

मजूषा – भग्नाः, मम, बान्धवानाम्, शिशुना, व्रणाः, इतस्ततः, सन्त्रस्तम्, आयोज्यन्ते, पातयित्वा, अलङ्कतानि।

11. अधः एकं प्रेरकसंस्मरणं लिखितम् अस्ति। तस्मिन् कानिचित् पदानि रिक्तानि सन्ति। तानि पूरयित्वा संस्मरणं पुनः उत्तरपुस्तिकायां लिखत। सहायतायै मञ्जूषायां पदानि दत्तानि। एकदा महात्मा गांधि पत्राणि (i) …………..  सहसा मसीपात्रे (ii) …………………… समाप्ता। तत्रैव लेखनी परित्यज्ये सः कार्यवशात् बहिः (iii) …………..। पुनः यदा आगतः, लेखिनीम् इतस्तत: (iv) …………..। लेखनी कुत्रापि न आसीत्। सः कर्मचारिणं (v) ……………. कर्मचारी अवदत्-‘सा तु मया बहिः (vi) ………… नूतनां लेखनीं स्वीकरोतु इति। महात्मा गांधिः प्रत्यवदत् – देशस्य धनम् अमूल्यम् (vii) ………………. क्षुद्रातिक्षुद्रम् अपि वस्तु न क्षेपणीयम्। एवम् (viii) ………….. सः स्वयं बहि: गत्वा लेखनीम् अन्विष्य (ix) ……………. तस्यां मसीम् अपातयत्, तया एव (x) प्र्धवान्।

मञ्जूषा – आनीतवान् लिखति स्म, अस्ति, लेखनकार्य, उक्त्वा, क्षिप्ता, पृष्टवान्, गतवान्, मसी, अन्विष्टवान्।

NCERT Solutions for Class 12 Sanskrit

LEAVE A REPLY

Please enter your comment!
Please enter your name here