CBSE Class 11 Sanskrit वार्तालापे एकपक्षपूरणम्

0
41

CBSE Class 11 Sanskrit वार्तालापे एकपक्षपूरणम्

(क) अधोलिखिते वार्तालापे प्रतिमा प्रतिश्च भगिनीद्वयं चिरकालान्तरं मिलति। परस्परं कुशलवार्ता पृच्छति। प्रीतिः प्रश्नं करोति। अत्र प्रतिमायाः उत्तराणि लिखितानि सन्ति। प्रश्नस्यानानि रिक्तानि सन्ति। मञ्जूषायाः साहाय्येन तानि रिक्तस्थानानि पूरयत।
प्रीतिः – ……………………?
प्रतिमा – अहं कुशला अस्मि। सुकृतः अपि प्रसन्नः अस्तिः।
प्रीतिः – ……………………?
प्रतिमा – अहं तु राजकीये विद्यालये पाठयामि, परम् अद्यत्वे तत्र अवकाशः अतोऽहं भवत्सकाशम् आगता।
प्रीतिः – ……………………?
प्रतिमा – सुकृतस्य परीक्षापरिणामः तु श्वः आगमिष्यति।
प्रीतिः – ……………………..?
प्रतिमा – सः यथा वदति तदनुसारं तु सः परीक्षायां प्रथमस्थानं ग्रहीष्यति।
प्रीतिः – …………………………
प्रतिमा – भवता दत्तं पुरस्कार प्राप्य सः भविष्यत्काले अधिकोत्साहन पठिष्यति। अधुना आवां चलावः।

मञ्जूषा –

  1. तस्य परिणामे भवती कथं चिन्तयति?
  2. परीक्षायां सुकृतस्य कीदृशः परिणामः वर्तते?
  3. अपि भवति कुशला? सुकृतः च कीदृशः?
  4. ईदृशः चेत्, तदाहं तस्मै घटिकाप्रदानेन पुरस्कारिष्यामि?
  5. कथं भवती अद्य चिरेण मत्सकाशम् आगता?

उत्तर:

  1. अपि भवति कुशला? सुकृतः च कीदृशः?
  2. कथं भवती अद्य चिरेण मत्सकाशम् आगता?
  3. परीक्षायां सुकृतस्य कीदृशः परिणामः वर्तते?
  4. तस्य परिणाम भवती कथं चिन्तयति?
  5. ईदृशः चेत्, तदाहं तस्मै घटिकाप्रदानेन पुरस्करिष्यामि।

(ख) अधोलिखितः संवादः दूरभाषे भवति। प्रमोदकुमारः नवनिर्मितम् आवासविषये अनुजं प्रवीरकुमारं सूचयति। तत्सम्बद्धेषु प्रश्नोत्तरेषु संवादे रिक्तस्थानानि पूरयत।
प्रमोदकुमारः- प्रवीर! त्वं कथं चिन्तयसि यदहं तुभ्यम् अधुना कं समाचारं दास्यामि?
प्रवीरकुमार – …………………………?
प्रमोदकुमारः- सत्यम् उक्तं भवता, समाचारः तु प्रसन्नतादायकः एव। मम भवनस्य निर्माणकार्य पूर्ण जातम्।
प्रवीरकुमार – …………………………?
प्रमोदकुमार:- अद्यैव ज्योतिर्विदा सह सम्पर्को जातः। तदनुसारं जूनमासस्य 24 तारिकायां गृहप्रवेशः भवेत्!
प्रवीरकुमार- …………………………..?
प्रमोदकुमार:- त्वया तु सपरिवारम् तदा आगन्तव्यम्। पितृव्यः अपि त्वया एव सूचनीयम्।
प्रवीरकुमार – ……………………….?
प्रमोदकुमारः- त्वं चिन्तां मा करोतु। अहम् एव पितृव्यमहोदयं दूरभाषद्वारा अधुनैव सूचयामि। प्रवीरकुमार

मञ्जूषा –

  1. आम् अहं सपरिवारम् आगमिष्यामि, परं पितृव्यः तु भवता एव सूचनीयः।
  2. अहं तदा अवश्यम् आगमिष्यामि। अपि किंचित्कार्यं मत्कृते वर्तते?
  3. शोभनम्! अधुनाहं यन्त्रं मुद्रितं करोमि।
  4. तदा गृहप्रवेशं कदा करिष्यसि?
  5. मन्ये, कोऽपि हर्षवार्ता भवेत्!

उत्तर:

  1. मन्ये, कोऽपि हर्षवार्ता भवेत्!
  2. तदा गृहप्रवेश कदा करिष्यसि?
  3. अहं तदा अवश्यम् आगिमिष्यामि। अपि किंचित्कार्यं मत्कृते वर्तते?
  4. आम् अहं सपरिवारम् आगमिष्यामि, परं पितृव्यः तु भवता एव सूचनीयः।
  5. शोभनम्। अधुनाहं अहं यन्त्रं मुद्रितं करोमि।

(ग) भारत-पाक-मध्ये क्रिकेट-क्रीडास्पर्धाम् अधिकृत्य चञ्चला शान्तिश्च सखीद्वयं परस्परम् आलपति। तयोः संवादे रिक्तस्थानानि मञ्जूषायाः सहायतया पूरयितव्यानिचञ्चला – भगिनि! श्रूयते यदद्य भारत-पाक-मध्ये एकदिवसीया क्रिकेटस्पर्धा आसीत्।
शान्तिः – ……………………………………………..
चञ्चला – स्पर्धायाः कीदृशः परिणामः अभवत्? मन्ये भारतदेशः विजयी भवेत्!
शान्तिः – ………………………………………………
चञ्चला – मन्ये, अयं दिवसः एव भारतीयानां क्रिकेटप्रेमिणां कृते शुभः नासीत्।
शान्तिः – ………………………………………………
चञ्चला – अधुना अग्रिमा स्पर्धा कदा वर्तते?
शान्ति: – ………………………………………………
चञ्चला – तदा अहमपि स्पर्धां प्रक्ष्यामि।
शान्तिः – ………………………………………………

मञ्जूषा –

  1. सम्यक् उक्तम्। अन्तिमे कन्दुके एव धावनचतुष्केन पाकदेशः भारतं पराजितवान्।
  2. सम्यक् श्रुतम्। अहं दूरदर्शने स्पर्धाम् पूर्णतया दृष्टवती। क्रीडा रोमाञ्चपूर्णा आसीत्।
  3. सुष्ठु चिन्तयसि। त्वं मम गृहमागच्छ। आवां मिलित्वा दूरदर्शने स्पर्धा द्रक्ष्यावः। आनन्दानुभूति च करिष्यावः।
  4. अन्तिमा स्पर्धा तु सप्तदशतारिकायां वर्तते।
  5. हा हन्त! भारतदलं विजयं न प्राप्तवान्। विकेट-त्रयेण तत् पराजितम्।

उत्तर:

  1. सम्यक् श्रुतम्। अहं दूरदर्शने स्पर्धांम् पूर्णतया दृष्टवती। क्रीडा रोमाञ्चपूर्णा आसीत्।
  2. हा हन्त! भारतदलं विजयं न प्राप्तवान्। विकेट-त्रयेण तत् पराजितम्।
  3. सम्यक् उक्तम्। अन्तिमे कन्दुके एव धावनचतुष्केन पाकदेशः भारतं पराजितवान्।
  4. अन्तिमा स्पर्धा तु सप्तदशतारिकायां वर्तते।
  5. सष्ठु चिन्तयसि। त्वं मम गृहमागच्छ। आवां मिलित्वा दूरदर्शने स्पर्धा द्रक्ष्यावः। आनन्दानुभूतिं च करिष्यावः।

अभ्यासः

1. मञ्जूषातः उचितानि पदानि चित्वा अधोलिखितं संवादं पूरयत।
(मञ्जूषा से उचित पद लेकर नीचे लिखे संवाद पूर्ण कीजिए।
Complete the following dialogue taking suitable words from the box.)
अध्यापिका – बाला:! किं भवन्तः किञ्चित् प्रष्टुम् (i) …………….. ?
बालाः – महोदये! (ii) ……………. तु गातुम् इच्छामः।
अध्यापिका – गातुम् इच्छन्ति! (iii) …………….. अहं तु (iv) …………….. न समर्था।
बालाः – (v) ……………. ! वयं गास्यामः। समूहगानम् (vi) …………….. भवती अपि।
अध्यापिका – (vii) ……………..। अहम् अपि गास्यामि। गीतं किम् अस्ति? किं वाद्ययन्त्राणाम् अपि। (viii) …………….. अस्ति ?
बालाः – (ix) …………….. यदि सन्ति, शोभनम्। अन्यथा एतानि (x) …………….. एव/गीतं तु ‘पोङ्कल’ इति उत्सवेन सम्बद्धम् अस्ति।
अध्यापिका – एवम्! तदा गायामः।

मञ्जूषा – विना गातुम्, इच्छन्ति, वयं, महोदये, परन्तु, यदि शोभनम्, आवश्यकता, वाद्ययन्त्राणि।

2. मञ्जूषातः उचितानि पदानि चित्वा अधोलिखितं संवादं पूरयत।
(मञ्जूषा से उचित पद लेकर नीचे लिखे संवाद पूर्ण कीजिए।
Complete the following dialogue taking suitable words from the box.)
अध्यापिका – वसन्त! किं त्वं किञ्चित् (i) ………….. इच्छसि ?
वसन्तः – (ii) …………….. महोदये! अहं प्रष्टुम् इच्छामि यत् कोकिलः कदा गायति?
अध्यापिका – कोकिलः (iii) …………….. गायति (iv) …………….. वसन्तागमनं भवति। सुमेधे! कथय! तमः (v) …………….. नश्यति?
सुमेधा – (vi) ……………..! यदा (vii) ……………. उदयति तमः तदा नश्यति।
अध्यापिका – अतिशोभनम्। मयूराः कदा (viii) …………..
भास्करः – अहं वदामि। यदा मेघाः गर्जन्ति तदा।
अध्यापिका – शोभनम्। कथयत, (ix) …………….. कदा नृत्यन्ति?
सर्वे – वयं (x) ……………. ।
यदा वृष्टिः भवति, कृषकाः नृत्यन्ति।

मञ्जूषा – कृषकाः, तदा, प्रष्टुम्, आम्, भानुः, जानीमः, यदा, नृत्यन्ति, कदा, महोदये।

3. मञ्जूषातः उचितानि पदानि चित्वा अधोलिखितं संवादं पूरयत।
(मञ्जूषा से उचित पद लेकर नीचे लिखे संवाद पूर्ण कीजिए।
Complete the following dialogue taking suitable words from the box.)
कृष्णः – त्वं कुत्र (i) ……………..?
राधा – अहम् (ii) …………… गच्छामि।
कृष्णः – (iii) …………….. पाठशालायाम् कति शिक्षिका:?
राधा – मम पाठशालायाम् (iv) …………… शिक्षकाः।
कृष्णः – तव (v) …………….. शिक्षिका न अस्ति?
राधा – (vi) …………….. शिक्षिका न अस्ति?
कृष्णः — शिक्षिकाणां (vii) …………….. कीदृशः अस्ति?
राधा – (viii) …………….!
कृष्णः – अहमपि तत्र (ix) …………….. इच्छामि।
राधा – (x) …………..।

मञ्जूषा – अवश्यमेव, आचारः, पाठशालाम्, एका, पञ्चदश. स्नेहशीलः, तव, अध्येतुम्, पाठशालायाम्, गच्छसि।

4. मञ्जूषातः उचितानि पदानि चित्वा अधोलिखितं संवादं पूरयत।
(मञ्जूषा से उचित पद लेकर नीचे लिखे संवाद पूर्ण कीजिए।
Complete the following dialogue taking suitable words from the box.)
स्वातिः – सखि! किं त्वं ह्यः विद्यालयं (i) ……………
शोणम् – स्वाते! (ii) …………….. तु ह्यः भ्रातुः विवाहम् अगच्छम्।
स्वातिः – किं न अजानाः त्वं यत् संस्कृताध्यापिका ह्यः (iii) ……………. लघुपरीक्षाम् (iv) …..
शोणम् – मया (v) …………….. आसीत्, परं भ्रातुः विवाहः अपि (vi) …………….. आसीत्।
स्वातिः – (vii) ……………. त्वं श्वः अवश्यम् अध्यापिकां क्षमा याचस्व (viii) ……………. च
कुरु यत् सा (ix) …………….. नयतु।
शोणम् – (x) …………….. इदं मया अवश्यं कर्त्तव्यम्।

मञ्जूषा – शोभनम्, अगच्छः, छात्राणाम्, ज्ञातम्, अकरोत्, अनिवार्यः, अहम्, अस्तु, प्रार्थनाम्, पुनःपरीक्षाम्।

5. मञ्जूषातः उचितानि पदानि चित्वा अधोलिखितं संवादं पूरयत।
(मञ्जूषा से उचित पद लेकर नीचे लिखे संवाद पूर्ण कीजिए।
Complete the following dialogue taking suitable words from the box.)
ईशा – त्वम् (i) ……………. विद्यालयं कथं न आगच्छः?
मुग्धा – ह्यः मम (ii) …………….. अस्वस्थः आसीत्।
ईशा – तव जनकः केन रोगेण (iii) …………….. आसीत्।
मुग्धा – स (iv) ……………… पीडितः आसीत्।
ईशा – (v) ……………… सः स्वस्थः अस्ति न वा?
मुग्धा – (vi) …………….. स स्वस्थः अस्ति।
ईशा – (vii) ……………… किं त्वं श्वः विद्यालयाम् आगमिष्यमि।
मुग्धा – अहम् (viii) ……………. अवश्यं विद्यालयाम् आगमिष्यामि।
ईशा – (ix) …………….. अहम्।
मुग्धा – (x) …………….. पुनः अपि शीघ्रम् आगच्छ।

मञ्जूषा – शोभनम्, गप शोभनम्, गच्छामि, ह्यः, जनकः, पीड़ितः, प्रतिश्यायेन, अधुना, इदानीम्, मुग्धे, श्वः।

6. मञ्जूषातः पदानि विचित्य अधोलिखितं संवादं पूरयित्वा उत्तरपुस्तिकायां लिखत।
(मञ्जूषा से पद लेकर नीचे लिखे संवाद पूर्ण करके उत्तर-पुस्तिका में लिखिए।)
Taking suitable words from the box, complete the following dialogue and write in your answer sheet.)
सुखदा – सखि, किं जानासि, अद्य कः उत्सवः अस्ति?
नम्रता – अद्य (i) …………….. अस्ति।
सुखदा – तदा तु अद्य वयं (ii) …………….. वस्त्राणि धारयिष्यामः।
नम्रता – मम माता अपि नवीनां (iii) …………….. धारयिष्यति।
सुखदा – अहं पित्रा सह विपणिं (iv) …………….. क्रीडनकानि मिष्टान्नं च ऋष्यामि।
नम्रता – त्वं मिष्टान्नं क्रीत्वा किं करिष्यसि?
सुखदा – वयं मिष्टान्नं परिवाराय (v) ……………. च दास्यामः।
नम्रता – किं मित्रेभ्यः किञ्चित् न दास्यसि?
सुखदा – वयं मित्रेषु अपि मिष्टान्नं (vi) …………..।
नम्रता – रात्रौ वयं सर्वे बालकाः मित्राणि च मिलित्वा (vii) …………… चालायिष्यामः।
सुखदा – अहं तु विस्फोटकपदार्थनां (viii) …………… करिष्यामि।
नम्रता – किमर्थम्?
सुखदा – यतः तेषां (ix) ……………. ध्वनिना च प्रदूषणं प्रसरति।
नम्रता – समीचीनं कथितम्। अहं रात्रौ (x) …………….. तु करिष्यामि परं विस्फोटक पदार्थान् न चालिष्यामि।

मञ्जूषा – धूम्रेण, बान्धवेभ्यः, बहिष्कारम्, दीपावली, नवीनानि, शाटिकाम्, वितरिष्यामः, लक्ष्मीपूजनम्, गत्वा, विस्फोटकपदार्थान्।

7. अधोलिखितसंवादं मञ्जूषापङ्कितसहायतया पूरयित्वा पुनः उत्तरपुस्तिकायां लिखत।
(नीचे लिखे संवाद को मञ्जूषा की पंक्तियों की सहायता से पूरा करके पुनः उत्तर-पुस्तिका में लिखिए।)
Re-write the following conversation in answer sheet after completing it with the help of the sentences given in the box.)
रमा – प्रियसखि लते! किमर्थं व्याकुला असि?
लता – (i) ………………………
रमा – एवम्। किं तव माता अपि गृहे नास्ति?
लता – (ii) …………………….
रमा – तर्हि त्वम् मया सह चल। मम गृहे भोजनं कुरु। पश्चात् आवाम् चिकित्सालयं गमिष्यावः।
लता – (iii) ……………………
रमा – श्रृणु। मम पिता अपि तस्मिन्नेव चिकित्सालये चिकित्सकः अस्ति।
लता – (iv) …………………….
रमा – इदानीं सः भोजनाय गृहम् आगमिष्यति। त्वं तत्रैव तेन सह वार्ता कुरु।
लता – (v) ……………………..
रमा – आम् अवश्यमेव। स न केवलं चिकित्सकः अपितु अतीव सहृदयः अपि। तन्न शेतव्यम्। सः कथयति-परोपकारः कर्तव्यः प्राणैरपि धनैरपि।

मञ्जूषा –

  • भोजनं नेच्छामि। मम माता प्रातः एव भोजनं सिद्धं कृत्वा गता।
  • अहं चिकित्सालये तेन सह वार्ता करिष्यामि।
  • मम माता अपि सेवार्थं चिकित्सालयं गता।
  • मम पिता अतीव रुग्णः, सर्वकारीयचिकित्सालये प्रवेशितः।
  • किं सः गृहे मम वार्ता श्रोष्यति?

8. अधोलिखित संवाद मञ्जूषाप्रदत्तपंङ्कितसहायतया पूरयित्वा पुनः उत्तरपुस्तिकायां लिखत।
(नीचे लिखे संवाद को मञ्जूषा में दी गई पंक्तियों की सहायता से पूरा करके पुनः उत्तर-पुस्तिका में लिखिए।
Complete the following dialogue with the help of sentences given in the box and re-write in your answer sheet.) ।
बकः – अयि, भो मण्डूकाः! शृणुत। अस्य जलाशयस्य जलं शीघ्रमेव शुष्क भविष्यति।
मण्डूकाधिपतिः – (i) ……………………
बकः – इदानीं भवतः प्राणरक्षार्थम् एक एव उपायः।
मण्डूकाधिपतिः – (ii) ………………….
बकः – अत्र समीपे एव एकः वृहदाकारः जलाशयः। तस्य जलं कदापि न शुष्यति। तत्र गन्तव्यम्।
मण्डूकाधिपतिः – (ii) ………………….
बकः – भोः माम् मित्रं वदथ। मित्रस्य कर्तव्यम् आपदि मित्ररक्षा। अतः अहमेव युष्मान् तत्र नेष्यामि।
मण्डूकाधिपतिः – (iv) ………………..
बकः – अलं चिन्तया। अहं द्वित्रिवारं गमनागमनं करिष्यामि। एकवारं पञ्च एव मण्डूकान् नेष्यामि।
मण्डूकाधिपतिः – (v) ………………….
एवं बकेन शनैः शनैः पर्वतशिखरे उपविश्य सर्वे मण्डूकाः भक्षिताः। अतः विश्वस्ते नाति
विश्वसेत्।

मञ्जूषा –

  • नूनतीव परोपकारी भवान्। भोः मण्डूकाः। पंक्तिं रचयत। प्रथमपञ्च आगत्य बकस्य पृष्ठम् आरोहन्तु।
  • ननु सत्यं किम्? वयं तु बहवः, त्वम् एकः एव।
  • हा हन्त! कथमस्माकं प्राणरक्षा भविष्यति?
  • भो मित्र! कथं वयं तत्र गमिष्यामः?
  • शीघ्रं कथय। अस्माकं प्राणाः व्याकुलाः भवन्ति।

9. अधोलिखित संवादं मञ्जूषाप्रदत्तपङ्कितसहायतया पूरयित्वा पुनः उत्तरपुस्तिकायां लिखत।
(नीचे लिखे संवाद को मञ्जूषा में पंक्तियों की सहायता से पूरा करके पुनः उत्तर-पुस्तिका में लिखिए।
Complete the following dialog with the help of sentences given in the box and re-write in your answer sheet.)
वैद्यः – कथय वत्स! किं कष्टम् अस्ति?
रुग्णः – भोः वैद्यमहोदय! (i) ……………………..
वैद्यः – कुत्र वर्तते वेदना?
रुग्णः – (आमाशयं स्पृशन्) (ii) ………………….
वैद्यः – ह्यः किं किं भक्षितमासीत्?
रुग्णः – (iii) …………………………………
वैद्यः – पश्यतु, क्षुधानुसारम् एव भक्षणीयम्। अतिभोजनं सर्वथा रोगजनकम् एव।
रुग्णः – (iv) …………………………………
वैद्यः – एताः चतस्त्रः गोलिकाः स्वीकरोतु। उष्णजलेन एका एका गोलिका प्रातः सायं सेवनीया।
रुग्णः – (v) …………………………………..
वैद्यः – न किमपि। केवलम् दुग्धम्। उष्णजलमेव च पातव्यम्। महर्षिः चरकः कथयति-जीर्णेन अश्नीयात्।
रुग्णः – यथा आदिशसि तथा करिष्ये।

मञ्जूषा –

  • इदानीं तु औषधं प्रयच्छतु। इतः परं कदापि अतिभोजनं न करिष्ये।
  • भोजने किं स्वीकुर्याम्।
  • अत्रैव मम उदरे।
  • महती वेदना वर्तते।
  • ह्यः एकस्मिन् विवाहभोजं गत्वा बहूनि मिष्टान्नानि खादितवान्।

10. मञ्जूषाप्रदत्तपंङ्कितसहायतया निम्नलिखितम् संवादं पूरयित्वा पुनः लिखत।
(मञ्जूषा में दी गई पंक्तियों की सहायता से निम्नलिखित संवाद को भरकर पुनः लिखिए।)
Complete the following dialogue with the help of sentences given in the box and re-write the same in your answer sheet.)
एकदा कोऽपि बाबू वेषधारी नागरिकः नौकया नदीपारं गच्छति स्म। सः आकाशं पश्यति नाविकं च पृच्छतिः
नागरिकः – भो नाविक। नक्षत्रविद्यां जानासि किम्?
नाविकः – (i) ……………………………………
नागरिकः – (हसन्) भो मूर्ख! तव जीवनस्य चतुर्थांशः नष्टः। गणितं पठितवान् किम्?
नाविकः – (ii) ………………………………….
नागरिकः – अरे! तव जीवनस्य अर्धं व्यर्थ जातम् (वृक्षपङ्कतीः दृष्ट्वा) वृक्षविज्ञानं जानासि?
नाविकः – (i) ……………………………………
नागरिकः – हा हन्त! तव जीवनस्य त्रिचतुर्थांशः व्यर्थः गतः।
नाविकः – (iv) …………………………………..
नागरिकः – भोः एषा नौका तु दोलायते। जलमपि प्रविशति। किं करोमि। तरणं न जानामि।
नाविकः – (v) ……………………………………

मञ्जूषा –

  • गणनाम् एव जानामि, न तु गणितम्।
  • भोः कथं वृक्षविज्ञानं जानामि। कथमपि नौकां चालयामि, उदरञ्च भरामि।
  • नहि नहि, अहं तु प्रतिदिनं तारकाणि दृष्ट्वा नमामि।
  • तरणं न जानासि नूनम्? तर्हि नूनं तव सम्पूर्णमेव जीवनं नष्टम।
  • पश्यतु पश्यतु, प्रबलः वायुप्रकोपः उत्पन्नः। अहं तु कुर्दित्वा तरामि।

11. निम्नलिखितम् संवादं मञ्जूषाप्रदत्तपंङ्कितसहायतया पूरयित्वा पुनः उत्तरपुस्तिकायाम् लिखत।
(निम्नलिखित संवाद को मञ्जूषा में दी गई पंक्तियों की सहायता से पूरा करके पुनः उत्तर पुस्तिका में लिखिए।
Complete the following dialogue with the help of the statements given inthe box and rewrite in your answer sheet.)
राघवः – भो रमणीक! भवान् कथम् ईदृशः महान् जातः?
रमणीकः – (i) ………………………………………..
राघवः – भोः! कथं मूर्खाणां कृपया भवान् बुद्धिमान् जातः?
रमणीक: (ii) …………………………………………
राघवः – एवम्। परेषाम् अनुभवात् शिक्षां गृहीत्वा भवान् बुद्धिमान् जातः किम्?
रमणीकः -(iii) ……………………………………….
राघवः – कः तावत् मूर्खः?
रमणीकः – (iv) ……………………………………..
राघवः – कः तावत् मूर्खतमः?
रमणीकः – (v) ……………………………………….

मञ्जूषा –

  • सत्यम्। यः परेषाम् अनुभवात् शिक्षते स एव बुद्धिमान्।
  • यः न अनयस्य न चापि आत्मनः अनुभवात् शिक्षते।
  • यः परस्य अनुभवात् न शिक्षते, पुनः आमूलात् प्रयत्नं करोति।
  • मूर्खाणां कृपया एव।
  • आम्। अहं मूखैः कृतानि कार्याणि अपश्यम् तानि अत्यजम्।

12. निम्नलिखितम् संवाद मञ्जूषाप्रदत्तपंङ्कितसहायतया पूरयित्वा पुनः लिखत।
(निम्नलिखित संवाद को मञ्जूषा में दी गई पंक्तियों की सहायता से पूरा करके पुनः लिखिए।
Complete the following dialogue with the help of lines given inthe box and re-write the same)
संवाद
गौरवः – निधे! मम पितृमहोदयाः ह्यः विदेशात् प्रतयागताः।
निधिः – एक अतीव मूल्यवान् उपहारः।
निधिः – (ii) ………………………
गौरवः – नहि! ततोऽपि अधिक मूल्यवान् कर्तव्यबोधः।
निधिः – (iii) …………………….
गौरवः – एषः बोधः यत् अस्माभिः देशस्य निन्दनं त्यक्त्वा तदर्थं कर्तव्यं पालनीयम्।
निधिः – (iv) ……………………
गौरवः – तत्र विदेशेषु जनाः स्वदेशं न निन्दन्ति, निन्दां श्रोतुमपि न शक्नुवन्ति, सर्वथा देशहिताय एव कार्य कुर्वन्ति।
निधिः – (v) …………………….

गौरवः – आम्! यदि वयं सर्वे मिलित्वा देशं प्रति जागरुकाः भवामः तर्हि भारतं विश्वे अग्रगण्यं भविष्यति इत्यत्र नास्ति सन्देहः।

मञ्जूषा

  • कर्तव्यबोधः इति किम्? नावमगच्छामि।
  • किमपि स्वर्ण हीरक वा?
  • सत्यम्। वयं भारतीयाः केवलं निन्दामः मार्गाः अस्वच्छाः, अनुशासनं नास्ति, स्वयं किमपि न कुर्मः।
  • शोभनम्। ततः तेन किम् आनीतम्?
  • नूनम् अमूल्यः अयम् उपहारः। देशं प्रति कर्तव्यबोधं बिना जीवनमेव निरर्थकम्।

13. निम्नलिखितम् संवाद मञ्जूषाप्रदत्तपंङ्कितसहायतया पूरयित्वा पुनः लिखत।
(निम्नलिखित संवाद को मञ्जूषा में दिए गए पंक्तियों की सहायता से पूरा करके पुनः लिखिए।
Complete the following dialogue with the help of the statements given in the box and re-write the same)
कासपीडितः धनिकः – भो वैद्य! औषधं यच्छ परन्तु अहं दधिसेवनं न त्यक्ष्यामि।
वैद्यः – (i) ………………………………
रुग्णः धनिकः – किं सत्यमिदम्? के च ते गुणाः?
वैद्यः – (ii) ……………………………..
रुग्णः धनिकः – दधिसेवनेन सह चौराणां कः सम्बन्धः?
वैद्यः – (iii) ……………………………
रुग्णः धनिकः – कस्तावत् अन्यः गुण:?
वैद्यः – (iv) रुग्णः धनिकः – तत्कथम्?
वैद्यः – (v) …………………………….
रुग्णः धनिकः – सम्यग् बोधितः। पथ्यं विना औषधं निरर्थकम्।

मञ्जूषा –

  • कुक्कुराः तं न दशन्ति।
  • कासरोगी यदि दधि सेवते, तस्य गृहं चौराः न प्रविशन्ति।
  • चिन्ता मा अस्तु। दधिसेवने बहवः गुणाः।
  • अतिदुर्बलः स दण्डेन चलति। कुक्कुराः दूरादेव पलायन्ते।
  • दधिसेवी कासरोगी सर्वां रात्रिं कासति एव, जागर्ति, कुतः चौरभयम्।

14. अधोलिखित संवादं मञ्जूषाप्रदत्तपङ्कितसहायतया पूरयित्वा पुनः लिखत।
(नीचे लिखे संवाद को मञ्जूषा में दिए गए पंक्तियों की सहायता से पूरा करके पुनः लिखिए।
Complete the following dialogue with the help of the sentences given in the box and re-write the same.)
प्रभा – शोभने! कुत्र गच्छसि?
शोभना – चित्रप्रदर्शनी द्रष्टुम्। (i) ……………………………
प्रभा – (ii) …………….। तत् स्थानं तु मम गृहस्य समीपे अस्ति।
शोभना – अहं जानामि। अद्य (iii) ……….
प्रभा – मम सौभाग्यम्। भवत्याः स्वागतम्। किम् एकाकी एव आगच्छसि?
शोभना – (iv) …………………………..
प्रभा – एवम्। प्रथमं मम गृहम् आगच्छन्तु। ततः मिलित्वा चलिष्यामः।
शोभना – (v) ……………………………

मञ्जूषा

  • अहं भवत्याः गृहम् अपि आगमिष्यामि।
  • न, न। मम माता अनुजः अपि च भविष्यतः।
  • अद्य कलानिकेतनस्य प्राङ्गणे चित्रप्रदर्शनी प्रदर्शिता।
  • एवमेव करिष्यामः।
  • कलानिकेतने।

15. अथोलिखित संवादं मञ्जूषाप्रदत्तपङ्कितसहायतया पूरयित्वा पुनः लिखत।
(नीचे लिखे संवाद को मञ्जूषा में दी गई पंक्तियों की सहायता से पूरा करके पुनः लिखिए।
Complete the following dialogue with the help of the sentences given in the box and re-write the same.)
धनेशः – अरे! कदा प्रभूति अत्र कार्य कोषि? पूर्वं तु न अवलोकितः।
रामेश्वरः – (i) ……………
धनेशः – एवम् सप्ताहः अभवत्। कुतः आगतः त्वम्?
रामेश्वरः – (ii) ……………
त्वम् मध्ये एव पठनं त्यक्तवा कथं पटनातः इह आगतः?
रामेश्वरः – किं करवाणि? मम अभागिनो जनकः पूर्वं दुष्टैः हतः। अधुना मम (iii) ………….. अनाथ:
अहं कथं निर्वाहं कुर्याम्?
धनेशः – किं त्वं पठितुं नेच्छसि?
रामेश्वरः – (iv) …………….. परं विद्या नास्ति मम भाग्ये।
धनेशः – हतोत्साही न भव। विद्यालये रात्रौ अपि अध्ययनं कार्यते। किमपि पूर्वं पठितम्?
रामेश्वरः – द्वितीयकक्षापर्यन्तम् एव।
धनेशः – सायम् आगच्छतु षड्वादने। यदि ध्यानेन पठसि, छात्रवृत्तिं लप्स्यसे।
रामेश्वरः – बहु उपकृतम्। (v) …………………………
धनेशः – सर्व तवाधीनम्। उद्यमेन हि सिध्यन्ति कार्याणि।

मञ्जूषा –

  • ईश्वरः भवते सर्वां सफलतां प्रदास्यति।
  • अवश्यम् इच्छामि
  • धनेशः
  • पटनातः
  • सप्ताह एव जातः
  • माता अपि दिवंगता

NCERT Solutions for Class 11 Sanskrit

LEAVE A REPLY

Please enter your comment!
Please enter your name here